SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ . निहतुकविनाशचर्चाया उपसंहारः। यात् प्रत्ययविशेषात् [S. 139b.] सञ्जातातिशयात् कपालादेर्भवनधर्मत्वात् तस्य च तज्जननस्वभावत्वादिति । स्वभावव्योपगमप्रसङ्गादिति परिजिहीर्षया पर आह - " न प्राग्” इत्यादि । कुत एतत् ? । “ एकस्वभावत्वात् " । सर्वदैकस्वभावस्य सर्वदा नित्यतैव न पश्चादनित्यस्वभावतासम्भव 5 इति । सिद्धान्तवाद्याह - " स तर्हि भावः " [T. 307b.] सर्वदा नित्यखभावः खभावेन "नाशमनाविशन्। अप्रतिपद्यमानः कथं नैव नष्टो(कथं नष्टो) नाम ? । कुतः ? " तत्स्वभावविनाशयोः " नित्यवभावताया, विनाशस्य चानित्यरूपतायाश्च “ अपरस्पररूपत्वात् ” परस्पर-10 परिहाररूपत्वात्। उपसंहरन्नाह - " यत एवं " स्थितिधर्मणां विनाशो नैव युज्यते तस्मात् सति अस्य विनाशे यद्यवश्यम्भावी कृतकरूपस्य सतो विनाश इष्यते परैस्तदा “ विनाशस्वभावेन " - विनश्यति नावतिष्ठत इति विनाशः । कर्तरि बहुलवचनाद् घञ् । स खभावो यस्य तेन विनाशखभावेनास्थिति-15 धर्मणा । " तेन ” कृतकरूपेण सता वस्तुना खहेतुभ्यो " भवितव्यम् " अन्यथाऽवश्यम्भावितयोपगतस्य कृतकात्मनां सतां विनाशस्यैवायोगात्। भवत्वेवम् इति चेत् । आह - “ तथापि " स्वयं विनाशखभावत्वेऽपि [S. 140a.] न केवलमविनश्वरस्वभावत्वे स्वभावा- 20 न्यथात्वासम्भवाद व्यर्थो विनाशहेतुरिति प्रथमविकल्पोपन्यास एवोक्तम्- न पुनरुच्यते । यत एवं "तेन" इत्यादि सुगमम् । .. तदेवं विनाशं प्रत्यनपेक्षामसामर्थ्य-वैयर्थ्याभ्यां तद्धत्वयोगेन कृतकलक्षणस्य सत्त्वस्य पूर्वाचार्यदर्शितां प्रतिपाद्य यथाऽसौ विपर्यये बाधकप्रमाणतामनुभवति तद् दर्शयन्नाह - 25 " तस्माद् विनाश " इत्यादि । प्रयोगस्त्वेवम् - ये यद्भावं प्रत्यनपेक्षास्ते तद्भावनियताः। [T. 308a.] तद्यथा- अन्त्या कारणसामग्री स्वकार्योत्पादने । अनपेक्षश्च कृतकरूपः सन् भावो विनाशे१. कथं नष्टो नाम - Tb. I Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy