________________
१४२
हेतुबिन्दुटीका। कीदृशं भावदयम् । नित्यानित्यौ स्वभावौ भेदौ यस्य तथा । योऽसौ नित्यः स्वभावः प्राक्तनः तस्य नित्याभिमतस्य स्वयं पश्चानाशं ब्रुवाणः सर्वदा प्रतिक्षणमेव नाशं प्राह । अन्यथा पूर्वोक्तेन न्यायेन पश्चादपि नाशासम्भवात् । अथ प्रतिक्षणमस्य नाशो 5 न भवति तदा पश्चादपि तदद्योगात् सर्वदैवानाशं प्राहेति कृत्वा पूर्वस्मिन्नित्याभिमते स्वभावे विनाशहेतुरसमर्थोऽकिश्चित्कर एव।
ननु च विनाशहेतो व सामर्थ्यमुपगतं परेण विरोधिसन्निधिमपेक्ष्य स्वयं नाशोपगमात् । न । अत एव तन्निबन्धनत्वप्रस10 ङ्गात् नाशस्य । अन्यथा ह्यकिश्चित्करः किमित्यसावपेक्ष्यते ?, हे
तुभावस्यापेक्षालक्षणत्वात् । स्वहेतव एवात्रापराध्यन्ति यकिञ्चित्करेऽपि तत्रापेक्षायां नियुचत इति चेत् । कः पुनरयमस्थानाभिनिवेशः तेषां यत् तत्र तथा नियुञ्जते । [S. 139a.] तस्मादुप
कार्यपेक्षायामेव' हेतवो नियुञानाः शोभन्ते । अन्यथा तेऽपि 15 कार्यात्मानो नैव तंन्नियोगमाद्रियेरन् । कथं चाकिश्चित्करो वि
रोधी नाम ?। न यस्याविरोधित्वाभिमताद्विशेषः कश्चिदिति यत्किश्चिदेतत् । __ यदप्युक्तं ' यथाऽन्येषां क्षणिकवादिनामकिश्चित्करमपि मुद्गरादिकमपेक्ष्य [S. 307a.] घटादिप्रवाहो निवर्त्तते तथाऽस्माकमपि 20 कालान्तरस्थायी भावः' इति तदपि परसमयानभिज्ञतयोच्यते । यतो नास्माकं प्रवाहो नाम क्षणव्यतिरिक्तोऽस्ति योऽकिश्चित्करमुद्गरादिसन्निधौ निवर्तेत । क्षणा एव हि केवलं सन्ति । ते च स्वनिवृत्तौ न मुद्गरादिकमपेक्षन्ते, स्वरसत एव निरोधात् । या तु तेषां कपालादिवृत्तिलक्षणा पर्युदासवृत्त्या निवृत्तिः यस्यां स25 त्यामेकत्वाभिनिवेशिनो लोकस्य सदृशापरभावरूपस्य विभ्रमनिमित्तस्यापगमात् 'निवृत्ता घटादयः' इति व्यवहारः, तत्राकिञ्चित्करत्वं मुद्गरादीनां नैवास्ति, तद्भाव एव तेषां भावात् । वेगवन्मुद्गरादिसहकारिणो घटक्षणात् परस्परोपसर्पणाद्याश्र१. मेव स्वहे° T. । २. कार्याणि । ३. हेतु। ४. विरोधिनः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org