________________
निहतुकविनाशचर्चाया उपसंहारः। स्वभावो जातो यथा त्वया विरोधिनमपेक्ष्य स्वयं निर्व(वार्तितव्यमिति । तदुक्तम् -
" स्वभावोऽपि स तस्येत्थं येनापेक्ष्य निवर्त्तते ।।
विरोधिनं यथाऽन्येषां प्रवाहो मुद्रादिकम् ॥” इति । ननु यद्यस्य विनाशो विरोधिसन्निधाने स्वयमेव भवत्यहे- 5 तुकः प्रामोति, अहेतोश्च देशकालस्वभावनियमो न युक्त इत्यत आह - " न च " नैव विनाशो नाम विनष्टुरपरः स्वभावः, यतोऽयं दोषः स्यात्, किन्तु " भावच्युतिरेव विनाशः" । [S. 138a.] तस्याश्च निःस्वभावत्वाद्धेतुमत्ता नैव युज्यते। नहि सा तस्य भवति । केवलमसौ स्वयमेव न भवति । ततो भवितुरभावात् 10 कस्य हेतुमत्तोपगम्यते।
सिद्धान्तवाद्याह - " नेदमनन्तरोक्तं विकल्पद्वयमतिकामति "। कीदृशं विकल्पव्यम् ? ।' किं नित्यो भावः ?' इत्यादि । [T. 306a] ननु च कालान्तरस्थितिधर्मातामुपगच्छतो नैव नित्यविकल्पस्यावकाशः । न । तदुपगमेऽपि नित्यतैवोपगता भवति । तथा हि - 15 यद्ययं संवत्सरस्थितिधर्मा स्वहेतुभिर्जनितस्तदा संवत्सरपरिसमाप्ती योऽस्यादावुदयकाले संवत्सरस्थितिधा स्वभावो यतोऽयं संवत्सरं स्थितः स एव तदन्तेऽपि । ततोऽपरं संवत्सरमवतिष्ठेत। तदन्तेऽपि प्रथमोत्पन्नसंवत्सरस्थितिधर्मस्वभावापरित्यागादपरापरसंवत्सरस्थितिप्रसङ्गात् कालान्तरस्थितिध- 20 मतोपगमेऽपि नित्यतैवोपगता भवतीति नित्यविकल्पो दुनिवारः। विनाशहेतुसन्निधौ स्वयं निवर्तत इति चोपगमादनित्यविकल्पो नवरात्मताविकल्पः। तथा हि - विनाशहेत्वभिमतसन्निधौ स्वयं विनश्यतो योऽस्य स्वभावः स एव भावस्यैकरूपस्वादुत्पन्नमात्रस्येति तदैव विनाशप्रसङ्गात् कथमस्य कालान्तर- 25 स्थितिधर्माता सम्भवति ? । एवं विकल्पे कृते पाश्चात्यविकल्पोपगमे कालान्तरस्थितिरेवास्य त्रुल्यतीति नित्यविकल्प एवानेनोपगन्तव्यः । तत्र [S. 138b.] विनाशहेतुसन्निधौ स्वयं नाशोपगमे प्राङ् नित्यो भूत्वा पश्चादनित्यो [T. 306b.] विनश्वरखभावो भवतीति ब्रूते । “ एवं च ब्रुवाणो भावद्वयं चाह " । वक्ष्यमाणापेक्षश्वकारः। 30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org