________________
१४०
हेतुबिन्दुटीका। ननु च दृश्यत एव कठिनादिरूपस्य ताम्रादेरम्यादेविनाशहेतोवादिस्वभावान्तरोत्पत्तिः । न च पूर्वकस्य प्रच्युतिधर्माता इत्यत आह - " एतेन ” अनन्तरोक्तेन : कठिनादीनाम् ” आदिशब्दादू द्रवादीनां' ताम्रसुवर्णादीनामग्निशीतवातादिभ्यो द्रवत्व5 कठिनत्वादिस्वभावान्तरोत्पत्तिर्व्यवस्थितरूपस्य ताम्रादेः " प्रत्युक्ता ” प्रत्याख्याता, तुल्यदूषणत्वात् ।
कथं तर्हि स्वभावान्तरोत्पत्तिः पूर्वस्य चाप्रच्युतिधर्मे स्थितस्याभावो [T. 305a.] युक्तः ? इत्याह :- " तत्रापि ” कठिनादिरूपे ताम्रादौ " पूर्वकस्य " कठिनद्रवादिरूपस्य " स्वरसनिरोधित्वात् " 10 विनाशहेत्वयोगेन । " विनाशे " सति “ अग्न्यादेः " आदिग्रहणाज्जलनिषेकशीतवातादेः । सहकारिणः परस्परोपसर्पणाद्याश्रयः प्रत्ययविशेषोपजातातिशया"दुपादानाच” यत् तत् कठिनादिरूपं ताम्रादि स्वरसतो निरुध्यते। तत एव उपादानकारणादग्नयादि
सहकारिकारणोपादानप्रत्ययोपजातविशेषाद् " अपर एव " अन्य 15 एव द्रवकठिनादिस्वभावो द्रवग्रहणस्योपलक्षणत्वात् , [S. 137b.]
* उत्पन्नो ” न तु पूर्वकमेव कठिनद्रवादिरूपं ताम्रादि व्यवस्थितात्मकं द्रवकठिनादिस्वभावेन परिणतमिति । - अत्र पर आह - “ केनोक्तं " यथा 'स्थितिधर्मणः सतो'
विनाशहेतोरस्थितिस्वभावोत्पत्तिस्ततो विनाशः' इति, येन 20 'यश्च परस्मादन्यथाभावः सोऽपरः स्वभावः' इत्याधुच्यते । किन्तु
स स्वयं स्थितिधम्मैव स्वहेतुभिर्जनितो नास्यास्थिरस्वभावता विनाशहेतोरुपजायते । कथं ज्ञायते यथा 'स्वहेतुभिः [T. 305b.] स्वभावेन स्थितिधम्मैव जनितः' इति? । विनाशहेतोरम्यादेरस
म्भवे अवस्थानात् । यदि स्वभावेनास्थितिधर्मा स्वहेतोर्जातः 25 स्यात् तदा तदसम्भवेऽपि नावतिष्ठेत। तस्य स्वभावेन स्थितिधर्मणः स्वहेतुभिरेवायमपरः स्वभावो नियमितो यदुत "परस्मात्" विरोधिनोऽज्यादे"विनाशः स्वयं भवतीति । परस्मादिति कर्मणि
ल्यप्लोपे पञ्चमी परमपेक्ष्य इत्यर्थः । स्वहेतुभिरेवायं नियमित- १. ना संग्रहः । ता° T. २. सतो विनाशहेतोरस्थिरस्वभावत्वात् विनाशहेतोरस्थिति° T.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org