________________
निर्हेतुकविनाशचर्चाया उपसंहारः ।
न्यथात्वस्यास्थिरात्मतापत्तेः केनचित् कर्त्तुमशक्यत्वात् । कामं हि भावाः स्वयं न भवेयुः । न तु सन्त एव स्वं स्वभावं परित्यजन्ति । अथ स्थितिधर्म्मणोऽप्यन्यथात्वप्रतिपत्तिरिष्यते तदाऽन्यथात्वप्रतिपत्तौ वा " तत्स्वभाव एव" स्थितिधम्मैव " न स्यात्”, आत्मभूतस्यास्थितिधर्म्मणः स्वभावस्य पश्चात् सम्भवे प्रागप्य - 5 भावायोगात् । नहि तदात्मनस्तस्मि (स्मिन्) सन्निहिते कदाचिदभावो युक्तः, अतत्स्वभावताप्रसङ्गात् ' विरुद्धधर्म्माध्यासस्य भेदलक्षणत्वात्' इत्युक्तम् । तथा च सति " पूर्व " एव "विकल्पः " स्वभावेनास्थितिधर्म्मा भाव इति । " तत्र च " पूर्व्वविकल्पे प्रा गेवोक्तं दूषणं विनाशहेतोर्व्वैयर्थ्यमिति ।
10
भावः K
अथासौ स्थिरस्वभाव एव, केवलमस्यास्थिरस्वभावता प्रागसति विनाशहेतोरुपजायते, अन्यथा निवृत्त्ययोगादित्यत आह – “यश्च परस्मात्” नाशहेतोः स्थितिधर्म्मण: [S. 136b. ] सतः “अन्यथाभावः” अस्थितिधर्म्मतालक्षणो भवति, स पूर्व्वकात् स्थितिधर्म्मणः स्वहेतुसमुद्भूतात् स्वभावात् " अपरः " अन्यः “ स्वभावस्त- 15 स्मिन्निष्पन्ने ” पश्चा[ज्जन्य] स्वाद भिन्नहेतुकत्वाच " कथं तस्य " खस्यात् " ? । तदात्मतया प्रतिभासनादिति चेत् । साखप्यादलक्षितविवेकस्य तथा प्रतिभासनं स्यात् यद्यसौ [T. 304b.] पूर्वस्वभावे सत्येवान्यतो भवेत् । अन्यथा विरोधः कथं परिह्रियेत ? । भवत्वपरः स्वभाव इति चेत् । यश्चापरः स्वभाव: स 20 कथं तस्य ? । न ह्यन्योऽन्यस्य स्वभावो युक्तः, अतिप्रसङ्गात् । योऽपर: स्वभाव: स किमिति तस्य न भवति ? इत्यत आह " स्वभावभेद - "इत्यादि । भवतु वस्त्वन्तरमेव तदपरस्वभावतया को दोष: ? इत्यत आह- " तथा च " वस्त्वन्तरत्वे सति विनाशहेतोरुपजायमानस्य स्वभावस्य पूर्वको भावः स्वहेतुभ्यो 25 यः स्थितिधर्म्मा [S. 1372. ] जातः सोऽच्युतिधर्मे स्थितो निवृतिभान भवति, विनाशहेतोर्व्वस्त्वन्तरोत्पत्तौ व्यापृतत्वादिति न तस्य " स्थितिधर्म्मणोऽन्यथाभावो” निवृत्तिः । नहि मुद्गरादेर्व्वस्त्वन्तरस्य भावेऽपरस्य निवृत्तिर्युक्ता अतिप्रसङ्गात् । तदुपमद्देन तदुत्पत्तौ च प्रागेव प्रोक्तम् ।
-
i
Jain Education International
3
१३९
For Private & Personal Use Only
30
www.jainelibrary.org