________________
हेतु बिन्दुटीका ।
जादिवत् ” तस्मादेवं विभज्यते । प्रायोग्रहणं चाक्षेपकारीन्द्रियादिसङ्घातव्यवच्छेदार्थम् । तत्सम्भविनो न्यायस्याक्षणिकेषु पृथग्भावसम्भवेन कथञ्चिदपि कल्पयितुमशक्यत्वात् । प्रागकारकस्य पश्चात् कारकस्वभावान्तरोत्पत्तिस्तु न विरुध्यते । तस्यैव ह्यकार5 कस्य तदात्मा कारकः स्वभावो न युज्यते न त्वतदात्मा । अत एव स्वभावान्तरग्रहणम् । तत्र केवलमकारकस्वभावस्य स्वरस - निरोधितामात्रमुपेयम् । [T. 303b. ] ततः सर्व्वे सुस्थमिति ।
१३८
अथ मतम् - कारकस्वभावान्तरोत्पत्तिरिष्येत यदि स्थिरस्य हेतोः प्रागपि कारकस्वभावो [S. 135b.] न स्यात् । तस्य तु प्रा10 गपि भावात् प्रत्ययान्तरापेक्षा तदुत्पत्तिरप्ययुक्तेति अत आह -
“ कारकस्य " इत्यादि । यदि हि समग्रावस्थायाः प्रागपि कारकस्वभावो भवेत् तदाऽस्याक्रिया न युज्यते, संहतावस्थायामपि तत्स्वभावतयैव करणात्, पररूपेण कर्तृत्वस्य प्रागेव निषिडत्वात् । न च करोति। तस्मात् सोऽस्य स्वभावः प्राङ्गैवासीत् । यदि 15 च प्रत्ययान्तरैरप्यसौ न क्रियेत तत् किमिति मुधैव तान्यपेक्षते ? इति ।
[ $ ४३. निर्हेतुकविनाशचर्चाया उपसंहारः । ]
तदेवं 'तत्स्वभावस्य जननात्" स्यस्य ' यो यत्स्वभावः स स्वहेतोरेवोत्पद्यमानः तादृशो भवति न पुनस्तद्भावे हेत्वन्तरमपे20 क्षते' इत्यस्यानेकान्तपरिहारायोक्तस्य प्रकारान्तरेणानेकान्ते उद्भाविते तत्परिजिहीर्षया “ अपरापरप्रत्यययोगेन" इत्याद्यभिहितम् । तत्र येन न्यायेन क्षणिकानां हेतुफलस्वभावः तस्याक्षणिकेष्वसम्भवं प्रतिपादयितुं प्रासङ्गिकं यदुपक्रान्तं तत् परिसमापय्य प्रकृतमनुबध्नन्नाह - “ तस्माद् यो यदात्मा ” इत्यादि । यदि स्वभावेनास्थिति25 धर्म्मणो भावस्य [S. 1362. ] न नाशकारणैः प्रयोजनं स्वभावेन स्थितिधर्म्मणो भविष्यतीत्यत आह - " स्थितिधर्म्मणोऽपि " इत्यादि । स्थितिधर्म्मणोऽपि हि नैव नाशकारणैः किञ्चित् प्रयोजनम् । तस्य स्वहेतुभ्यः समुपजातो यः स्थिरः स्वभावः तद१. किमिति तथाऽन्यान्यपेक्षते - T. । २. पू. ८३ पं. २२ । ३. पृ. ८३ पं. १ । ४. पृ. ११६
पं. १३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org