________________
क्षणिके एव एकार्थक्रियारूपसहकारित्वम् ।
१३७ रिकृतकार्योत्पादानुगुणविशेषजन्यस्वभावत्वात् । यत एवम् “इति” तस्मात् “ नानवस्था " प्रागुक्ता । अथ सहकारिणा क्षित्यादिना कुशूलाद्यवस्थोऽपि बीजादिः तेनापि क्षित्यादिः कृतविशेष एवोपतिष्ठेतानवस्थैवं स्यात् इति । तस्य प्रकारस्थानभ्युपगमात् पुरुषप्रयत्नादेरेव [T. 302b.] क्षेत्रप्रकिरणहेतोरव्यवहितलिग्धप-5 थिवीबीजसम्पर्कलक्षणस्य कार्योत्पादानुगुणविशेषजनकस्य विशेषेऽस्योपगमात् । तत्र यदुक्तं परेण 'यथा प्रथमसम्पर्कभाजः क्षितिबीजादयः परस्परस्य विशेषमनाद्धानाः कार्योत्पादानुगुणं विशेष जनयन्ति, तथा [S. 134b.] स्थिररूपा अपि भावाः तदेककार्यप्रतिनियताः परस्परकृतविशेषनिरपेक्षा एव भविष्यन्ति' इति, 10 तभ्युपगच्छन्नाह " तथा यद्यक्षणिकोऽपि" इत्यादि । क्षणिकवदक्षणिकोऽपि यदि कार्य करोति करोतु नाम । न कश्चिद् वारयति । किन्तु येन स्वभावेन कार्य करोति स यदि “अविलम्बितकार्यकर्तृधर्मा” अक्षेपेण करोतीत्येवंशीलो धर्मों यस्य स तथोक्तः, तदा “ पृथग्भावस्य सम्भवात् केवलोऽपि " न केवलं सहितः "तथा स्यात्। 15 तत्कार्यकारकः स्यादित्युक्तं बहुशः । “अतत्स्वभावस्तु” अक्षेपकर्तृस्वभावविकलस्तु " तदाऽपि " सहितावस्थायामपि प्राग्वत् " अकारक एव " पररूपेण कर्तृत्वस्य पूर्वमेव निषेधात् ।
तदेवमेकार्थक्रियया विशेषोत्पादनेन चाक्षणिकानां सहकारित्वं निषिध्योपसंहरनाह - “ तस्मात् " इत्यादि। विविधस्यापि 20 सहकारित्वस्यायोगान्नैवाक्षणिकस्य कश्चित् [T. 303a.] सहकारीति केवलोऽपि स्वकार्य कुर्यादिति सहकारिप्रत्ययापेक्षस्याक्षणिकस्य हेतुतां ब्रुवाणस्य किं युक्तमिति [S. 135a.] दर्शयन्नाह - “प्रायस्तु" इत्यादि । यो हि स्थिरहेतुवादी तस्य यदि स हेतुः प्रत्ययान्तराण्यपेक्ष्य कार्य करोति तदा "व्यक्तम् अवश्यं तस्य स्थिरस्य हेतोः 25 प्रत्ययान्तरापेक्षकारकस्य स्वभावान्तरस्योत्पत्तिरिति । “नाकार्यस्य" कार्यतामननुभवतो अपेक्षेत्युच्यते । यतः सहकारिणां यः “संघातः" सन्निपातः "तस्थायी" तत्र वर्तमानो भावसन्तानः "प्रायः" बाहुल्येन " सहकारिप्रत्ययैरुपजनितविशेषः " सन् “ स्वकार्य कुर्वन् दृष्टो बी१. तस्मात् न घटाभाव इति नानावस्था प्रा. T.I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org