________________
हेतुबिन्दुटीका ।
र्यकारणयोः स्वभावभेदात् । किंचिद्धि कार्य कारणसामग्रीसन्निधिमात्रजन्यस्वभावम्, तदन्यत्तु तत्परिणामापेक्षमिति । कारणमपि किञ्चित् [T. 301b.] स्वसन्निधिमात्रेण कार्यजननस्वभावं स्वकारणेभ्य एव भवति, येन परस्परकृतां विशेषपरम्परां स्व5 कार्यकरणे नापेक्षते । अन्यत्तु तद्विपरीतस्वभावम् । यथा किश्चिदेव शाल्यङ्कुरजननस्वभावम् तद्विपरीतं चापरम् । शाल्यङ्कुरश्च तद्वीजजन्यस्वभावो न यवादिबीजजन्यस्वभाव इति न भावानां स्वहेतुबलायाताः प्रमाणाधिगताः स्वभावाः पर्यनुयोज्याः । ये तु यज्जननस्वभावाः प्रमाणतोऽधिगताः ते किं सर्व्वदैव तत्स्व10 भावा: ? आहोस्वित् तदैव ? इत्यत्र चिन्ता प्रवर्त्तते । तत्र स
दा तत्स्वभावत्वे पश्चादिव प्रागपि तत्कार्यक्रियाप्रसङ्गेन पररूपेणाकारकस्य [S. 133b.] भिन्नस्वभावता कारकाकारकावस्थयोः शालियवबीजादीनामिव तत्त्वचिन्तकैरुच्यते । सदृशापरभावनिबन्धनं चैकतया प्रत्यभिज्ञानं लूनपुनर्जातेष्विव केशनखादिषु' 15 इत्यत्र विरोधाभावादिति । यदा च तत्कार्यकारणस्वभावभेदात् कार्यद्वैविध्यम्, “तत्रै” तस्मि (स्मिन् सति "सहकारिभ्यः” क्षितिबीजादिभ्यस्तेषां परस्परसन्तानोपकारमपेक्षते यत् कारणमन्त्यावस्थाप्रासं तस्य यत् कार्यमङ्कुरादिकं तज्जन्मनिमित्तं "सहकारिणां " प्रथमक्षणानन्तरं विशिष्टद्वितीयक्षणभावरूपो यो [T. 302a.] वि20 शेष: कार्योत्पादानुगुणः “ आद्यो " भवति " स तेषां " सहकारिणां प्रथमसम्पर्कभाजां परस्परकृतो यो विशेषस्तज्जन्मा न भवति परस्परोपसर्पणाद्याश्रयादेव प्रत्ययविशेषात् तस्य भावात् । ततः कार्योत्पादानुगुणादाद्याद् विशेषात् प्रथमक्षणोपनिपातिभिः सहकारिभिरन्यतः [S. 1342 ] समासादितविशेषैः जनितात् त25 त्प्रभृति " ये विशेषाः " प्रकृष्यमाणतदुत्तरोत्तरक्षणभावलक्षणा जायन्ते " ते तज्जन्मानः " सहकारिकृतविशेषजन्मानः । कुतः ? “ तत्प्रकृतित्वात् ” तस्याद्यस्य विशेषस्य परस्परोपसर्पणाद्याश्रयात् प्रत्ययविशेषादासादिततदनुकूलविशेषैः सहकारिभिः परस्परोपकारनिरपेक्षैर्जन्यस्वभावत्वात्, तदुत्तरेषां च विशेषाणां सहका१. 'षु अत्रापि वि° T.
१३६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org