________________
क्षणिके एव एकार्थक्रियारूपसहकारित्वम् ।
ग्यदेशाद्यवस्था जातास्ते सह स्वभावनिष्पत्त्या ज्ञानहेतुतां प्रतिपद्यन्त इत्यनेन, इहापि गम्यमानत्वात् । ततो यद्यप्येषां परस्परतोऽनुपपत्तेर्विवशेषो न भवति, स्वहेतुकृतस्तु केन वार्यते ? | न च स्वहेतुत एव सञ्जातविशेषाणां भावे परस्परतस्तदाशंसा, यतः परस्परतो विशेषायोगः प्रतिपाद्यमानः शोभेत । तेषां च 5 कार्योत्पादानुगुणविशेषजनकानां प्रत्ययानां प्रत्येकं सामर्थ्येऽपि खण्डशः कार्योत्पादायोगात् सकलस्यैव प्रत्येकं करणात् । यथा केवलानामक्रिया कर्तृविशेषस्याव्यवधानादिदेशक्षितिबीजादिकलापस्य पृथगेकैकस्य समर्थस्य भावस्याभावादित्येतदप्य सकृदेवोक्तम् ' तेषां च न पूर्व्वं न पश्चात् न पृथग्भाव इति समर्थानपि 10 [S. 132b.] पूर्वापरपृथग्भावभाविनो दोषा नोपलीयन्ते ' इत्यादिवचनात् । ततस्तथाविधविशेषस्य स्वोपादानमात्रनिबन्धनस्यानभ्युपगमेन [T. 301a.] केवलानामप्रसङ्गात् कुतः कार्योत्पादानुगुणविशेषारम्भद्वारकं कार्यमपि स्यादिति ? |
कुतः पुनरयं कामचारो लभ्यते यदङ्करादिकार्यं सहकारिण: 15 परस्परस्य कार्योत्पादानुगुणां विशेषपरम्परां जनयन्तः कुर्व्वन्ति, कार्योत्पादानुगुणं तु विशेषं व्यवधानादिरहितदेशोपनिपातमात्रेणेत्यत आह “ कार्यद्वैविध्यं च यस्मात् तस्मादेवं विभज्यते " कथं द्वैविध्यं कार्याणामिति ? अत आह - सहकारिभिरव्यवधानादिदेशैरनन्तरं सञ्जनिताः परस्परस्य प्रागवस्थापेक्षविशिष्ट - 20 क्षणभावलक्षणा ये विशेषास्तत्परम्परया उत्तरोत्तरविशिष्टविशिष्टतरादिक्षणभावरूपया उत्पत्तिर्द्धम्म यस्य तदात्मकमेकं कार्यम् । अन्यच्च तद्विपरीतं यत् सहकारिसन्निधिमात्रेण भवति न परस्परकृतां विशेषपरम्परामपेक्षते । अत्रोदाहरणम् - " अङ्कुरादिवत् ", आदिग्रहणादोदनादिवत् । तथाऽक्षेपेण करणशीलं य- 25 दिन्द्रियं [S. 133a ] तद्विज्ञानादिवच्च । प्रभास्वरादपवरकप्रविष्टेन्द्रियनिरासार्थं चैतद् विशेषणम् । कुत एतद् ? इति चेत् ; का१. नुत्पत्ते - T. । २. विशेषयोग T. 1 ३. 'देशक्रममात्रे' T.। ४. दि गृह्यते । अक्षेT.
Jain Education International
-
१३५
For Private & Personal Use Only
www.jainelibrary.org