________________
१३४
हेतुबिन्दुटीका। भावेष्वपरापरोत्पत्तैरैक्याभावात् ' इति चात्र संक्षिप्ततरमुक्तम् । एवं च 'नास्माकं पुनः पुनर्वचन ' इत्यत्र द्विः पुनर्ग्रहणं युज्यते। यथा येन प्रकारेण भावसन्ताने विशेषस्योत्पत्तिः [त]दप्युक्तम्'तंत्र स्वरसतः पूर्वक्षणनिरोधे तेभ्य एव विशिष्टक्षणोत्पादाद 5 विशेषोत्पत्तिः' इति । अथ कार्योत्पादानुगुणविशेषजनकविशेषापेक्षया प्राग्वत् प्रथमसम्पर्कभाजः परस्परतो निविशेषा इत्यभिमतं तदप्ययुक्तम् । यतः कार्योत्पादानुगुणस्य विशेषस्य जनकाः [S. 131b.] क्षितिबीजाद्यः कीदृशाः ये [T. 300a.] व्यवधानादिरहितत्वेनोपनिपातिनः । तद्भाव एव तस्य भावात् एतावन्मात्र10 निबन्धनत्वाच्च जनकं व्य(कव्य)वस्थायाः। ते च तथाविधाः सर्वदा न भवन्तीति कथं पृथगपि कार्योत्पादानुगुणविशेषारम्भ एषां स्यात् ?, यतः केवलानामपि कार्यक्रिया प्रसज्येत तद् दर्शयति - योग्यो देशो येषां ते योग्यदेशाः, तद्भावो योग्यदे
शता, सा आदिर्येषामव्यवहितदेशत्वादीनामवस्थाभेदानां ते त15 थोक्ताः, ते च ते अवस्थाभेदाश्च तथोक्ताः । “ योग्यदेशता अ(० ताद्य)व्यवहितदेशतादयो ” ये " अवस्थाविशेषाः" क्षितिबीजादीनामुपजायन्ते ते कार्योत्पादानुगुणविशेषलक्षणकार्यकरणशीलाः, नैवंविधाः सर्वदा बीजादय इति कथमेषां पृथगपि तथाविधविशेषारम्भः स्यात् ? । एतदपि प्रागेवोक्तम् ' तत्र योऽव्यवधा20 नादिदेशो रूपेन्द्रियादिकलापः स विज्ञानजनने समर्थो हेतुः'
इतिं वचनात् । तस्य चोदाहरणमात्रत्वात् । इहापि तत्र योऽव्यवधानादिदेशः क्षितिबीजादिकलापः स कार्योत्पादानुगुणविशेषजनने समर्थों हेतुरिति प्रतीयत एव । स च [S. 132a.] तथाविधो विशेषः सर्वदा न भवति, तज्जनकस्य हेतोरभावात् । परस्प25 रोपसर्पणाद्याश्रयस्यैव [T. 300b.] प्रत्ययविशेषस्य तद्धेतुत्वात् ।
एतदपि पूर्वमेवोक्तमित्याह - तेषां च कार्योत्पादानुगुणविशेष[जनने] विशेषवतां यत उत्पत्तिस्तदप्युक्तमसकृदेव ' यस्तेषां परस्परोपसर्पणाद्याश्रयः प्रत्ययविशेषः स त तुजनने समर्थो हेतुः' इति । तथा ' यथास्वं प्रत्ययैः परस्परोपसर्पणाद्याश्रयैर्ये यो
१. पृ० १३० पं० ११। २. जनकव्यव° T.। ३. पृ. ११७ पं० १५। ४. पृ० ११७ पं० २४ । ५. पृ. १२९ पं० १२।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org