________________
क्षणिके एव एकार्थक्रियारूपसहकारित्वम् ।
१३३ रिणां सहकारित्वं परमार्थतः कचित् [S. 130b.] सम्भवति, यतः प्रथमक्षणभाविनां बीजादीनां तदभावात् कार्योत्पादानुगुणे विशेषे कर्तव्ये सहकारिताविरहः स्यात् । किन्त्वेकार्थक्रियैव सहकारिणां पारमार्थिकं सहकारित्वं पूर्वोक्ताभियुक्तिभिः सम्भाव्यते। सा च प्रथमसम्पर्कभाजामस्त्येवेति किं न सहकारिणः 5 स्युः। __ पर आह - साऽप्येकार्थक्रिया न भवेत् परस्परतो विशेषरहितानाम् । यदि पुनः परस्परतो विशेषरहितानामपि तदेकार्थक्रियाऽङ्गीक्रियते तदा प्रत्येकं तद्वस्थायां तदुत्पादनसामर्थ्याभ्युपगमात् तवस्थायामिव पृथगपि सा भवेत् । तथाहि - ते त-10 वस्थायामपि परस्परतो निर्विशेषा एव कुर्वन्ति । तेषां पृथगपि तविशेषक्रिया कथमिव न प्रसज्येत ? । नह्येषां संहतासंहतावस्थयोः कश्चिहिशेषोऽस्तीति । भवतु, को दोषः ? इति चेत्, “ तथा च " कार्योत्पादानुगुणविशेषस्य पृथक्करणप्रसङ्गे सति "तस्माद् विशेषाद् भवनशीलम् अङ्कुरादि “ कार्यमपि विशेषवत् केवलात् 15 सहकारिणः स्यात् इति चेन्मन्यसे , अत्रापि सर्वमुक्तमुत्तरम् । तथा हि - संहतासंहतावस्थयोन्निविशेषा एव क्षणक्षयिणो भावा इति यदुच्यते तत् किं तावविशेषमात्रापेक्षया ? आहोस्वित् [T. 299b.] कार्योत्पादानुगुणविशेषजनकविशेषापेक्षया ?। यदि प्राच्यो विकल्पः तदयुक्तम् । न हि काचिद् विशेषमात्र- 20 रहिताऽवस्था [S. 131a.] सम्भवति, सर्वदाऽपरापरप्रत्यययोगनिबन्धनस्यापरापरविशेषस्य भावात् । नहि कदाचित् किंचिदेकमेव, आधारच्छायातपवातशीतादेर्यथासम्भवं भावात् । न च तद्भावेऽपि तत् तादृशमेव , कारणभेदात् । एतावत्तु स्यात् - कश्चिद् विशेषः कचित् कार्येऽनुगुणो न सर्वः सर्वत्रेति । एतच 25 प्रागेवोक्तमिति दर्शयन्नाह – “ प्रतिक्षणमपरापरैः प्रत्ययैः ” इति । 'अपरापरप्रत्यययोगेन प्रतिक्षणं भिन्नशक्तयः संस्काराः सन्तन्वन्तो यद्यपि कुतश्चित् साम्यात् सरूपाः प्रतीयन्ते, तथापि भिन्न एवैषां खभावः, तेन किश्चिदेव कस्यचित् कारणम्' इति , 'क्षणिकेषु १. पृ० ११६ पं० १३ । २. पृ० ८८ पं० १९ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org