________________
१३२
हेतुबिन्दुटीका। दानुगुणविशेषजनको विशेषः स्यात् यतः 'अविशिष्टाद् विशेषोस्पत्तौ कार्यस्यापि स्यात्' इत्येतदपि परिहियेत ।
कुत एतद् ? इत्याह – " तदुपाय ” इत्यादि । तेषां क्षितिबीजादीनामुपाये - योग्यदेशोपनिपाते कार्यव्यक्तिदर्शनात् अपाये 5 च-परस्परसम्पर्कविरामे कार्यानुत्पत्तिदर्शनात् । यदि हि कायोत्पादानुगुणविशेषोत्पादने सर्वदा योग्यावस्थाः स्युः तदा सोऽपि विशेषः सर्वदा [T. 298b.] स्यात् । ततस्तत्परम्पराभावि कार्यमिति तदुपायापाययोः कार्यस्योत्पत्त्यनुत्पत्ती न स्याताम् । [S. 130a.] तस्मान्न सहकारिणः कार्योत्पादानुगुणविशेषोत्पादने 10 योग्यावस्थाः सर्वदेति । यतः सहकारिणा पृथगवस्थितेनानवस्थाभयात् कृतविशेषो नोपतिष्ठते परस्परतश्च प्रथमसम्पर्कक्षणभाविनां नोपेयते युज्यते वा। तेन कारणेनाद्यो विशेषः कार्योत्पादानुगुणः सहकारिभ्यः समानकालतया निरुपकारस्य क्षितिबीजादेः "नोत्पद्यते”, उत्पद्यते चासौ इतीष्यते । तेन समग्रावस्था15 वत् सर्वेषां व्यग्रावस्थाभाविनामपि क्षणानामविशेषात् तज्ज
ननस्वभावत्वेऽप्यजननात् समग्रावस्थायामेव जननाद् । यथा क्षणिकानामेकार्थक्रियाप्रतिनियमलक्षणं सहकारित्वं तथा स्थिरस्वभावानामपि भविष्यतीति क्षीणसोपायोऽक्षणिकवादी साम्यमेवातुर इव बहुमन्यमानस्तत्रैव भैरं कृतवान् ।। 20 सिद्धान्तवादी भङ्गया परमुपहसन्नाह - " नास्माकं पुनः पुनः " इत्यादि। यदि पुनः पुनर्वचनेऽपि लोकस्य न्यायप्रतीतिर्भवति शतशोऽपि ब्रूमः । किमङ्ग पुनछौं त्रीन् वा वारान् ? । नहि परार्थप्रवृत्तानामस्माकं पुनः पुनरभिधाने कश्चिदुद्वेगो भवति । एवं
वादिनश्चं शास्त्रकृतः कचित् प्रकारान्तरेण तमेवार्थ [T. 299a.] 25 स्फुटीकुर्वतो ये पुनरुक्ततापरिहाराय यतन्ते स तेषामस्थानपरिश्रम एव । यदि नोद्वेगो हन्त तर्युच्यताम् इत्यत आह - “ न विशेषोत्पादनादेव " इत्यादि । नैव विशेषोत्पादनात् सहका
१. कार्योत्पाददर्शनात् - T. । २. नोपायता - T.। ३. नोपपद्यते - T. । ४. परं कृत°-T.। ५. पर्यायान्तरेण - T.I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org