________________
१३०
हेतुबिन्दुटीका । क्षितकार्योत्पादानुगुणं प्रतिक्षणं प्रकृष्यमाणं विशेषमुत्पादयन्तः " तत्र " कालक्षेपभाविनि कार्ये कर्त्तव्ये “ हेतुसन्तानोऽपरापरक्षणभावलक्षण आत्मातिशयासादनार्थ सहकारीणि प्रत्ययान्तराण्यपेक्षते, न तु तत्समानकालः कारणक्षण इति । “ततस्तेभ्यः का5 रणान्तरेभ्यः " स्वभावान्तरस्य " कार्योत्पादानुगुणविशेषपरम्परालक्षणस्य “प्रतिलम्भः ” सन्तानस्यैकत्वेनाधिमुक्तस्योच्यते लोके । परमार्थतस्तु तत्रापि पूर्वः पूर्वः प्रत्ययकलाप उत्तरोत्तरकार्योत्पादानुगुणे [T. 297a.] विशिष्टक्षणे प्रतिनियत इत्येकार्थक्रिया
लक्षणमेव सहकारित्वमनुभवति । 10 कथं पुनः स्वभावान्तरप्रतिलम्भस्तेषाम् ?, यतः क्रमेण कार्य निवर्तयन्तीत्यत आह - " तत्र स्वरसतः " इत्यादि।" तत्र " तस्मिन् हेतुसन्ताने ये हेतव उपादानकारणाख्याः ये च प्रत्ययाः सहकारिसंज्ञितास्तेषां ये पूर्वे [S. 128b.] प्रथम उपनिपातक्षणाः तेषां विनाशहेत्वनपेक्षितया स्वरसतो निवृत्तौ सत्यां तेभ्य एव 15 स्वरसतो निवर्तमानेभ्यः प्रथमक्षणेभ्यः कार्योत्पादानुगुणेन विशेषेण विशिष्टस्य क्षणस्योत्पत्तिः तेभ्योऽनुगुणतरविशेषवतां तृतीयक्षणानां तेभ्योनुगुणतमविशेषवतां चतुर्थक्षणानाम् ; एवं यावदत्यन्तातिशयवानन्त्यः कारणकलापो जातः ततः कार्यस्योत्पत्तिः इत्येवं सहकारिभ्यः स्वभावान्तरपतिलम्भः, क्षेपवती च 20 कार्योत्पत्तिरिति ।
__ अत्र परश्चोदयन्नाह - * सहकारिणः " सह करणशीलात् कारणात्, जातावेकवचनम् , यत् समुत्पन्नविशेषमनन्तरोक्तेन प्रकारेण कारणं अन्त्यसामग्रीक्षणलक्षणं ततोऽङ्कुरादिकार्योत्पत्ती इष्यमाणायां तस्यैव विशेषस्याद्यस्य कार्योत्पादनानुगुणस्य यः . 25 क्रमेणाभिवर्द्धमानः कार्यस्य जनक इष्यते तस्यैव उत्पत्तिनं स्यात् प्रथमक्षणोपनिपातिनां [T. 297b.] परस्परतो विशेषानासादनात् क्षणानामविवेकात् अनभ्युपगमाच ।
परस्परतोऽनवासविशेषा एव कार्योत्पादनानुगुणं विशेषमा- . रप्स्यन्त इति चेदाह - “ अविशिष्टादविशिष्टेभ्यः परस्परतो “ विशे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org