________________
क्षणिके एव एकार्थक्रियारूपसहकारित्वम् । १२९ स्माघदसम्भवि कार्य यत्र दृश्यते तस्य ततोऽन्यत्वमेव, शालिबीजादिव कोद्रवबीजस्येति निरतिशयादन्यत्वमेव सातिशयतया तत्कार्यकारिण इति । एवं तावद् यत्र सहकारिभ्यः क्रमेण कार्य भवति तत्रातिशयोत्पादनलक्षणमौपचारिकं सहकारित्वमेकार्थक्रियालक्षणमेव तु मुख्यं तत्रापीति प्रतिपादितम्। 5
यत्र त्वक्षेपेणैवार्थसन्निधिमात्रेण सहकारिणः कार्य कुर्वन्ति किं तत्रापि सन्तानाश्रयमतिशयोत्पादनमस्ति? इत्यत आह - " अक्षेपकारिषु ” इत्यादि । 'ये ह्यव्यवधानादिदेशा इन्द्रियादयः खहेतुभ्यो जातास्तेष्वविलम्बितकारिषु न विशेषोत्पत्तिः परस्परतः सम्भवति, क्षणिकत्वात् ' इत्युक्तं [S. 127b.] प्राक् । 10 _यदि न विशेषोत्पत्तिः तदा कथं निविशेषा ज्ञानस्य कारणीभवन्ति ? इत्यत आह - " तत्र यथास्वं ” यस्य ये आत्मीयाः प्रत्ययाः तैः, “ परस्परोपसर्पणव्यवधानादिविरहादेराश्रयभूतैर्ये जाताः " योग्यश्वासावत्यासन्नत्वातिविप्रकर्षविरहाद देशश्च स आदिर्यस्याव्यवहितदेशादेः तत्रावस्थानमवस्था येषां " ते सह स्वभावनि-15 प्पत्त्या " [T. 296b.] स्वभावनिष्पत्तिविद्यत इत्येव कृत्वा “ ज्ञानहेतुतां प्रतिपद्यन्ते ” तत्र किं परस्परतो विशेषोत्पत्त्या प्रार्थितया ?। यदि हि स्वहेतुभ्य एव परस्परोपसर्पणाद्याश्रयेभ्यः स्वकार्यजननक्षमा योग्यदेशाद्यवस्थानलक्षणविशेषयोगिनो नोत्पद्येरन् , तदैषां परस्परतो विशेषोत्पत्तिः प्रार्खेत, न तु स्वहेतुभ्य एव 20 तथाविधानामुत्पत्तौ । यत एवम् "इति” तस्मात् " तत्र " तेषु अक्षेपकारिध्विन्द्रियादिषु “ एकार्थक्रियैव " मुख्यं “सहकारित्व” न सन्तानाश्रयेण [S. 128a.] व्यवस्थाप्यमानमतिशयोत्पादनलक्षणं गौणमिति। ___अथ विशेषोत्पादनलक्षणं सहकारित्वं कथं न व्यवस्था- 25 प्यते । तदपि हि लोके प्रतीतत्वाद् व्यवस्थापनीयमेवेत्यत
आह - " यत्र तु” कार्ये नाव्यवधानादिदेशोपनिपातमात्रेणैवे• न्द्रियादय इव सहकारिणः प्रत्ययतां प्रतिपद्यन्ते, किन्तु विव
१. त्तिमिद्यते - T.I
१७ हे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org