________________
१२८
हेतुबिन्दुटीका। त्यादि । एकार्थक्रियालक्षणमेव सहकारित्वं सर्वत्र न क्वचिदतिशयोत्पादनं सम्भवति । यत्र तु सन्तानोपकारेण पूर्वपूर्वप्रत्ययेभ्यो विशिष्टविशिष्टतरोत्तरोत्तरक्षणजननेन भावाः सहकारिणो विवक्षितकार्यस्य हेतुतां प्रतिपद्यन्ते - यथा तण्डुलादिभ्य 5 ओदनादिजन्मनि दहनोदकादयः, बीजादिभ्यश्चाङ्कुरादिजन्मनि पृथिव्यायः - तत्र विशेषोत्पादनं प्रत्ययानां सहक्रियोच्यते लोके। सन्तानाश्रयेण पूर्वक्षणेभ्यो द्वितीयादिविशिष्टक्षणलक्षणं सन्तानाख्यं कार्यमाश्र(श्रित्य [T. 295b.] पूर्वोत्तरक्षणयोरेकस्वाध्यवसायेन तस्यैवायमतिशय इति न द्रव्याश्रयेण। औपचारि10 कमेव न तु पारमार्थिकम् । पूर्वपूर्वक्षणेभ्यस्तु [S. 126b.] खहेतुपरिणामोपनिधिधर्मभ्य उत्तरोत्तरविशेषोत्पत्तौ पूर्वकारणकलापस्यैकार्थक्रियालक्षणमेव तत्र परमार्थतः सहकारित्वमिति न काचित् क्षतिरिति । कस्माद् द्रव्याश्रयेणातिशयोत्पादनं नेष्यते ।
क्षणिके द्रव्ये वस्तुनि विशेषस्यानुत्पत्तेः तस्यानन्तरक्षणभाव15 रूपत्वाद्। - यदि तर्हि क्षणिके तण्डुलादिद्रव्ये विशेषो नोत्पद्यते, अनन्तरमप्यसौ मा भूत् । ततो यथा परस्परतो विशेषमनासादयन्तोऽपि क्षणिकाः सहिता एव कुर्वन्ति न केवलाः, एवमक्षणिका अपि। तेनैषामेकार्थक्रियालक्षणमेव सहकारित्वं भवि20 ष्यति । न च शक्यं वक्तुम्-यो यस्य प्रागकारकः खभावः स
पश्चादपीति। तथा हि - प्रभास्वरादपवरकं प्रविष्टस्येन्द्रियमर्थप्रतिपत्तिमकुर्व्वदपि पश्चात् कुर्वाणमुपलभ्यते । तदुक्तम् -
"न हि प्रविष्टमात्राणामुष्णाद् गर्भगृहादिषु ।
अर्था न प्रतिभान्तीति गृह्यन्ते नेन्द्रियैः पुनः॥" [श्लोक. प्रत्यक्ष. १२६] इति। 25 अत आह - " नहि तण्डुलादीनाम् ” इत्यादि । विशेषानुत्पत्ती
सन्निधानस्याप्यसन्निधानतुल्यत्वात् [S. 127a.] दहनादिभावेऽपि तण्डुलादिभ्यो नौदनजन्म स्यात् । [T. 296a.] तथा प्रभाखरादपवरकं प्रविष्टस्य यदीन्द्रियं स्वोपकारिभ्योऽतिशयं क्रमेण न प्रतिपद्यते तदा प्रागिव पश्चादप्यर्थप्रतिपत्तिं नैव जनयेत् । त१. पूर्वपूर्वक्ष - T.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org