________________
क्षणिक एव एकार्थक्रियारूपसहकारित्वम् ।
११२७ कार्यापेक्षयाऽपि विरोधस्य तावस्थ्यं दर्शयन्नाह - " कार्य परम् ” इत्यादि । कार्यस्य परापेक्षां ब्रुवन् केवलात् कारणादनुत्पत्तिमस्य कथयसि, ‘स केवलोऽपि समर्थः' इतीदं वदस्ततः केवलादुत्पत्ति कार्यस्य ब्रूषे। एते चैकस्यैव कार्यस्य । तत एवैकस्मात् कारणादुत्पत्त्यनुत्पत्ती परस्परविरुद्धे “ कथमेकत्र " कार्याख्ये 5 धम्मिणि " स्याताम् ? " विरुद्धधर्माध्यासस्य भेदलक्षणत्वात् । एकत्र ते ब्रुवाणो 'माता च वन्ध्या च' इत्यनेन सदृशं ब्रूष इति न [S. 125b.] पूर्वोक्तदोषान्मुच्यसे, यत एवमपि ब्रुवाणो विरुडमेव ब्रूते न च लक्षयति " तत्" तस्मात् "अयम्' अक्षणिकवादी क्षणिकपक्षस्थानवद्यतया तदादिनां निर्दोषतासम्पत्सु अमर्षल-10 क्षा एव शल्यं अन्तर्दुःखहेतुत्वात् तेन वितुद्यमानानि व्यथ्यमानानि मर्माणि यस्य सो"ऽयमीशिल्यवितुद्यमानमर्मा " वराकोऽखस्थचिंत्ततया विरुद्धाभिधानमप्यलक्षयन् “विक्लवम्” आकुलं पूर्वापरासम्बडं “ विक्रोशति ” विरोदिति "इति” कृत्वा अवस्थचित्तवचनेष्वनादरात् तद्दोषोद्भावनस्य सुतरां दुःखोत्पादनेन क्षत-15 क्षारनिषेकतुल्यत्वात् “उपेक्षामेव विपश्चितानां(०श्चितां) कृपाधनानाम् "अर्हतीति”। ... तदेवमक्षणिकेषु न कथश्चिदेकार्थक्रियाप्रतिनियमलक्षणं सहकारित्वं [T. 295a.] सम्भवतीति प्रतिपाद्योपसंहरन्नाह - " तस्मादिदम् ” इत्यादि । येषां हि स्थिररूपतया पृथगपि भावः सम्भ- 20 वति तेषामक्षणिकानां "पृथक् केवलानां “कार्यकरणसम्भवेन” हेतुना सहैव कुर्वन्तीति सहकारित्वनियमायोगादिदमेकाक्रियालक्षणं सहकारित्वं [S. 126a.] क्षणिकानामेव । तेषां खहेतुपरिणामोपनिधिधर्माणां परस्परोपादानसहकारिप्रत्ययैकसामग्रीजन्यानां पृ. थगसम्भवात् ।
25 .. [$४२. क्षणिकपक्षे एव एकार्थक्रियारूपसहकारित्वस्य व्यवस्था।]
ननु अतिशयोत्पादनलक्षणमपि सहकारित्वं भावेषु दृश्यते तत् कथमुक्तं प्राक् ' सर्वत्र नैवातिशयोत्पादनं सहक्रिया, किं तर्हि बहूनामेकार्थकरणमेव' इत्यत आह-" यत्र तु सन्तानोपकारेण" इ१. मवश्यं क° T.। २. पृ० ११३ पं० २७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org