________________
१२६
हेतु बिन्दु टीका ।
तदात्मनः कार्यस्य सहितेभ्य एव भावादेकार्थक्रियालक्षणं सहकारित्वमक्षणिकानामप्युपपद्यत इति । सिद्धान्तवादी पूर्व्वदोषानतिक्रममस्य दर्शयन्नाह - " तस्यापि” एवंवादिनः " कथं स " नित्याभिमतो भावः " केवलः करोत्येव" "अक्षेपक्रियाधम्मैव स तस्य 5 स्वभाव:' इति [S. 124b.] वचनात् । कार्ये च सहितेभ्य एव भवति, 'सामग्रीजन्यस्वभावत्वात् तस्य' इति वचनात् । तस्मात् केवलान्न भवतीति " तदवस्थो विरोधो " यः पूर्व्वमुक्तः । तथाहि - यद्यक्षेप क्रियाधम्र्म्मा तदाऽवश्यमनेन कार्य कर्तव्यम् न चेदवश्यं करोति कथमक्षेपक्रियास्वभावः ।
अक्षेपेण कार्यदर्शनादक्षेपक्रियास्वभावताऽवगम्यते [T. 2942. ] नान्यथा इति पराभिप्रायाशङ्कयाऽऽह - " न केवल : " इत्यादि । नैवं मयोक्तं केवलः करोत्येवेति किन्त्वक्षेपक्रियास्वभाव इति । अत्राह “ कथमिदानीम् ” इत्यादि । यदि करोत्येवेति नेष्यते कधमक्षेपक्रियास्वभाव इति कथ्यते ? । अथ तथोच्यते तदा नन्वे15 तदेवानेन वचसा परिदीपितम्” अभिहितं भवति । किं तत् ? । करोत्येवेति । स एव ह्यक्षेपक्रियास्वभावो यः करोत्येव, यस्तु नावश्यं करोति स कथं तद्रूपः स्यात् । यदप्युक्तं 'कार्यस्यैवायमपराधों यत् तस्मिं (स्मिन्) जनकतयाऽवस्थिते प्रत्ययान्तराण्यपेक्षते' इति तदप्ययुक्तम्, यतः “ कार्य " चायमक्षणिको भावः 20 " केवलोऽपि समर्थः सन् परं " प्रत्ययान्तरम् " अपेक्षमाणं कथमुपेक्षेत ?” नैव । अनुपेक्षमाणेन किं कर्त्तव्यम् ? । आह-- "परं" प्रत्ययान्तरम् "अनादृत्य" तिरस्कृत्य एतत् [S. 125a. ] कार्य "प्रस" हठात् "कुर्यात्" । क एवं सत्यस्य गुणो भवति ? इति चेत्, आह - " एवं हि " परमनादृत्य हठात् स्वकार्य " कुर्व्वताऽनेन " केवलेनापि समर्थेन सता यत् त25 दात्मनः केवलस्यापि " सामर्थ्यं " तद् " दर्शितं " प्रकाशितं भवति । अन्यथाऽन्यसहितस्यैव करणात् केवलस्य च कदाचिदस्यकरणात् न 'अयं केवलोऽपि समर्थ:' इति परेषां बुद्धि: स्यात् । ततोऽयं तिरस्कृतप्रेभाव इव कथं भ्रजेत ? । तस्मादयुक्तमुच्यते कार्य [T. 294b.] प्रत्ययान्तरापेक्षमिति ।
१. प्रसव - T. । २. भजेत ? T, ।
10
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org