________________
हेतुबिन्दुटीका। सहकारिभ्यो भवेत् । यदा तेभ्योऽपि न भवेत् । तेषामपि पररूपेण कर्तृत्वे स्वयमकारकत्वात् । ततः सर्वेषामेवं स्वयमकारकत्वे पररूपेणाप्यकारकत्वात् सर्वथा कारकोच्छेद एवेति न किश्चित् कुतश्चित् जायेत । तस्मात् स्वरूपेणैव भावः स्वकार्यस्य 5 कर्ता न पररूपेणेति नास्योत्तरस्यावकाशः। ततोऽन्यः सहितोऽन्यश्च केवलः इत्येतद्विचलमेवेति । - अथ येन स्वरूपेणायं जनकस्तदस्य सहितासहितावस्थयोः सर्वदाऽस्ति तदा स्वरूपं च स्वकार्यजनकमस्य स्थिरस्वभावस्य प्रागपि सहितावस्थायास्तदेव यत्सहितावस्थायामक्षेपक्रियास्व10 भावमिति तस्मात् न कथंचित् कार्यक्रियाविरामः। अथवा कदाचित् परो ब्रूयात् स्वहेतुभिरेवायं प्रत्ययान्तरापेक्षः [T. 292b.] स्वकार्यजननस्वभावो जनित इतिं केवलो न करोति । न चास्य सहिंतासहितावस्थयोः स्वभावभेदः, प्रत्ययान्तरापेक्षस्वकार्यजननस्वभावतायाः [S. 123a.] सर्वदा भावात् इत्यत आह - 15 " नहि स साहित्येऽपि " इत्यादि । स्वरूपेणैवास्य कर्तृत्वात् तस्य च प्रागपि भावात् प्रत्ययान्तरापेक्षायाश्च ततो लभ्यस्यात्मातिशयस्याभावेनायोगात् उपकारलक्षणत्वादस्य, अन्यथाऽतिप्रसङ्गात्, केवलस्य कार्यकरणमनिवार्यमिति अकुर्वतः कथं सहितावस्थाया न भेदः स्यात् ? इति भावः। प्रत्ययान्तरापेक्षस्वकार्यकरणस्व20 भाव इत्यपि पररूपेणाकारकस्य प्रत्ययान्तरसन्निधानोपलक्षित. काले कारकत्वं न प्रागित्ययमर्थः । ततश्च कदाचित् कार्यक्रियास्वभावो न सर्वदा इति ब्रुवता कथं सर्वदा कार्यजननखभावता:स्योक्ता भवति ?। नन्वेवं स्वभावभेद एवास्य तदतत्कालयोः
समर्थितः स्यात् । तस्मान्नाक्षणिकानामेकार्थक्रियाप्रतिनियमल25 क्षणं सहकारित्वमिति स्थितम् ।
परः समानदोषतामापादयन्नाह - “ यस्यापि " इत्यादि सु. बोधम् । यदि नाम क्षणिकस्तथापि किन्न भवति ? इत्याह - “ उक्तं यादृशस्य " सहकारिभिरपृथग्भाविनः “ क्रिया " । 'ते' स१. तां विवक्षन्नाह - T. । २. पृ. ११४ पं. ६ ।'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org