________________
भावाद् भिन्नस्य सामर्थ्यस्य नियसः ।
१२३ अत्राह – “ तत् किमिदानीम् ” इत्यादि । स्यान्मतम् - नैवेदमनेन वाक्येन सदृशमस्मद्वाक्यमित्याह – “को वाऽस्य ” इत्यादि। यद्येतदनेन तुल्यं [T. 291b.] न भवति तदा सकलसहकार्यवस्थायाः "प्रागपि” अयम् "अक्षेपक्रियास्वभावः” अविलम्बितकार्यकरणख. भावः "कार्यं च न करोती त्यस्य भाषितस्यार्थो वक्तव्य इति। . 5
नैयायिकास्तु मन्यन्ते - भावानां सहकारिसन्निधानासन्निधानापेक्षया कारकाकारकस्वभावव्यवस्था, न स्वभावतः, तेनायमप्रच्युतोत्पन्नस्थिरैकखभावत्वेऽपि [S. 122a.] न प्रागपि खकार्यजननखभावः, किन्तु सन्निहितसकलसहकारिप्रत्यय एवेति। तन्मतमाशङ्कमान आह - “ सहितः” इत्यादि ।
- 10 - एतन्निरस्यति - " अन्यस्तर्हि ” इत्यादि । यदि नाम सहितस्य स्वकार्यजननस्वभावता, केवलस्य च तद्विपरीतरूपता, अन्यत्वं तु कस्माद्भवति ? इत्यत आह - “ स्वभावभेद " इत्यादि । “ स्वभावभेद एव हि भावभेदस्य लक्षणम् "। स चेत् तत्कार्यजनकाजनकरूपतया भिद्यते, शालियवबीजादीनामिव कथमिव भावभेदो न स्यात् ।। 15 नहि स्वभावादन्यो भावः यतस्तद्भेदेऽपि न भित, निःस्वभावताप्रसङ्गात्।
ननु चोक्तं स्वतो जनकाजनकस्वभावताविरहात् प्रत्ययान्तरभावाद्यपेक्षत्वात् जनकाजनकरूपतायास्तद्भेदेऽपि कुतो भावभेप्रसङ्गः ?, तस्योपरीपेक्षस्वभावभेदलक्षणत्वात् इत्यत आह - 20 " नहि स साहित्येऽपि " इत्यादि । तदैतदुत्तरं भावत्कं सम्बंध्येत यदि भावो योऽसौ परः सहकारित्वाभिमतः [T. 292a.] सन्निधीयते तद्रूपेण कर्ता स्यात् न स्वरूपेण । न चैतदस्ति , तथाभावे हि परमार्थतः स एव परः कर्ता स्यात् । तत्र तु कर्तृत्वव्यपदेशः [S. 122b.] कल्पनानिम्मित एव भवेत् । न च कल्पनानुवि- 25 धायिन्योऽर्थक्रियाः । नहि माणवको दहनोपचारादाधीयते पाके। ततश्च नास्यानुपकारिणो भावमपेक्षेत कार्यमिति तद्रहितेभ्य एव
१. °कारिकार्याव° - T.। २. भावभेदस्य । ३. भावभेदस्य अपरापेक्ष[स्वभावत्वे] य: स्वभावभेदः तन्निमित्तत्वात् । ४. संवाद्यते - T.। ५. परस्य कर्ता - T.I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org