________________
१२२
हेतुबिन्दुदीका। " दर्शनस्य विषयतामतिक्रामेत् ” तदा " हन्त " इति दैन्योद्भावनमेतत् , अप्रसवो धर्मोऽस्य तदिदम्- " अप्रसवधर्मकं " ततोऽपेतसन्तानं "स्यादिति इयमस्माकं चिन्ता चित्तं दुनोति ।।
पर आह - " न वै वयम् ” इत्यादि । नैव वयं कार्यकरणस्व-5 भावरहितानां “ भावानामस्मदर्शनवशात् कार्यक्रियां ब्रूमः , किन्तु " स्वभावेनैव ते भावाः तत्कार्यकरणस्वभावाः, ततः स्वकार्य कु
वन्ति । " तान् पश्यन्तः केवलं जानीमहे " त एते कारकस्वभावा इति । दर्शनस्य हि यथावस्थितवस्तुविज्ञाने व्यापारः, नाविद्या(घ)मानस्वभावक्रियायामिति । 10 सिद्धान्तवाद्याह - " सत्यम् , इदमप्यस्ति । किं वयं न्यायानु
रागितया न्याय्यं [T. 29ta.] वचनमुपलक्षयामः, उत भवानेव सर्वदा न्याय्यवचनरहितोऽपि कथञ्चिन्न्याय्यमुक्तवान् इति सजातपरितोषः पृच्छति-किं तद् ? इत्याह – “ स्वभावस्तेषां " भा. वानां " कार्यक्रियाधर्मा " कार्यकरणधर्मा “ तेन " कारणेन “स15 मस्ताः, समग्राः प्रत्ययाः सहकारिणो येषां तेषामकृत्वा कार्य " नोपेक्षापत्तिः" नौदासीन्यप्रतिपत्तिः इति सत्यम्-इदमप्यस्ति भवतो न्याय्यं वचनमिति, किन्तु इदमसि प्रष्टव्यः - [S. 121b.] " सोऽक्षेप]क्रियाधा स्वभावः किं तेषां तदैवान्त्यावस्थायां " समग्रावस्थायां यदनन्तरं कार्यमुत्पद्यते तदैव "उत्पन्नः ? आहोस्वित् प्रागपि” 20 परस्परविरहावस्थायामपि “आसीत्। १ ।
. तत्र तदैवोत्पन्ने तत्स्वभावत्वेऽपूर्वोत्पत्तिरेव, अतत्स्वभावत्वे सोऽकारक एवेति प्रागुक्तदोषभयात् पर आह - "आसीत्। कुतः१ प्रच्युतश्च उत्पन्नश्च प्रच्युतोत्पन्नः, तस्य प्रतिषेधः "अप्रच्युतोऽनुत्प(अप्रच्युतोत्प)न्नः " स्थिर एकः स्वभावो येषां भावानां तेषां क25 स्मिंश्चित् काले “ कस्यचित् ” स्वभावस्य तत्रोपलब्धस्य "अभाववि
रोधात् "। क्षणिकेष्वेव ह्येकदा दृष्टः स्वभावोऽन्यदा न भवेत् तदा । तस्यान्यत्वात् । नाप्रच्युतानुत्पन्नपूर्वापररूपेषु स्थिरेषु भावेष्विति। . १. केवलं न जनयन्ति । त० - T.। २. कर्मधारयो शेयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org