________________
१२१
भावाद् भिन्नस्य सामर्थ्यस्य निरासः। कुतः १ । सामर्थ्यमित्याख्या यस्य पदार्थान्तरस्य सहकारिप्रत्ययसान्निध्यलक्षणस्य स एवातिशय[शब्द]वाच्य इति नैयायिकैरभ्युपगमात् । तत एव तद्भावभावित्वेन कार्योत्पत्तेः । तेऽपि सहकारिणः प्रत्ययाः यद्यक्षणिकाः तेष्वप्येवं [S. 120b.] प्रसङ्गोऽनिवारित एवेति क्षणिकतेवैकार्थ[क्रिया]प्रतिनियमलक्षणं सहकारि- 5 त्वमिच्छतोऽभ्युपेया।
पुनरप्यक्षणिकानामेकार्थक्रियाप्रतिनियमं निराकर्तुमुपचयहेतुमाह - " अपि च " इत्यादि । योऽसावक्षणिको भावः सकलेषु सहकारिषु स्वकार्य करोतीतीष्यते, स तदैव तावत् कस्मात् करोति ?। येन हि कारणेन तत्कार्यक्रियास्वभावत्वेन तदा क- 10 रोति तेने(नै)व स्थिरस्वभावत्वात् प्रागपि कुर्यात्, ततः कुतोऽस्यैकार्थक्रियाप्रतिनियमः ? इति भावः ।
"का चान्या मृग्यते युक्तिः यथा तद् दृश्यते तथा” इति सर्वत्रेयमप्रतिहता युक्तिरिति मन्यमानः कुमारिलः प्राह - “ कुर्वन् दृष्टः ” इत्यादि । यतस्तंदैव कार्य कुम्(न्) दृष्टो मया " तेन दर्शनबलेन 15 करोतीति ब्रूमः", किमंत्रान्ययोपपत्त्या[T. 290b.]ऽभिहितया?,प्राक् तत् कुर्वन्न दृष्टः तेन न करोतीत्येकार्थ[क्रिया]प्रतिनियमः सिध्यति अक्षणिकानामपीति । भावो हि कार्य करोति तज्जननस्वभावतया न दर्शनबलेनादृष्टस्यापि स्वकार्यकरणात् अतो नेदमुत्तरं सम्बध्यत इत्युपहसन्नाह - “ अहो महासामर्थ्यम् ” इत्यादि । 20 महाप्रभावस्य भवतो महासामर्थ्य दर्शनम्, यस्मादेतद्भावान् कार्यकरणस्वभावविकलानपि-यदि कार्यकरणस्वभावत्वाद् भावाः कार्यं कुर्युः तदैतदेवोत्तरं किं नोक्तम् ? , यतः [S. 121a.] कार्यकरणे दर्शनमुत्तरीकृतमिति कृत्वा - " स्वभावमात्रेण " आत्मसत्तामात्रेण "नानाप्रकारेषु व्यापारेषु नियुङ्क्ते” तत् कथं महासामर्थ्य न स्यात् । न 25 चात्र मे काचिदक्षमा किन्तु “यदि नाम किञ्चित्” कारणं "कथञ्चिद्अनादृतस्य वा व्याक्षिप्तस्य वा “ अत्र भवत" इति पूजावचनम्
१. तदेवैकमर्थ कुर्वन् T. । २. किमत्र न्यायोपपत्त्या दृष्टया - T.। ३. अक्षमता - T.। - १६ हे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org