________________
१२०
हेतुबिन्दुटीका । माणे । नहि तेषां समर्थस्य सामर्थ्यस्य च स्वभावभेदोऽभिमतः। कथञ्चित् तद्भेदेऽपि तत्स्वभावतयैव प्रतीयमानत्वादिति ते मन्यन्ते । “ अपूर्वोत्पत्तिरेव सा " [T. 289b.] अपूर्वस्यैव वस्तुनः सा उत्पत्तिर्या तत्स्वभावस्य सामर्थ्यस्य । नोकस्वभावत्वे सामर्थ्य5 मेवापूर्वमुपजातं न समर्थः इति युक्तम् , तयोः स्वभावभेदप्रसङ्गात्, विरुद्धधर्माध्यासस्य भेदलक्षणत्वात् ।
ननु प्रतीयमाने एव सामर्थ्यतद्वतोरुत्पत्त्यनुत्पत्ती एकस्वभावता च कथं निहोतुं शक्यते ? इति चेत् । न । अप्रमाणेन प्रतीतेः, अन्यथा प्रतीत्यनुसारिणा भवता विचन्द्रादयोऽपि न 10 निहोतव्याः। बाधकप्रमाणसम्भवात् तेऽपढ्यन्त इति चेत् । इहापि वस्तुन एकस्वभावस्योत्पत्त्यनुत्पत्ती परस्परविरुद्ध बाधिके किं नेष्येते ? । व्यवस्थितस्यैव वज्रोपलादेडमिणः [S. 120a.] तस्वभावं सामर्थ्य मुत्पन्नमिति च पूर्वापरकालयोरप्रतिभासमानविवेकः कथं प्रतीयात् । 15 विज्ञानादिकार्यस्यानुत्पत्तियोगपद्योदयप्रसङ्गात् चक्षुरादिसानिध्ये प्रागसत् तत् सामर्थ्यमुत्पन्नं क्रमवच्चेति निश्चय इति चेत् । यद्येवमेकाकारतया पूर्वापरकालयोरधिकृतं प्रत्यभिज्ञानमुपजायमानमपूर्वसामर्थ्यप्रतिभासविविक्तोपलादिग्राह्यप्यनुमानादर्थापत्तितो वा बाधामनुभवन्न प्रमाणमित्युपगतं स्यात् । तथा , उत्प20 स्नुत्पत्त्योरेकस्वभावतायां विरोधात् समर्थस्यैवापूर्वस्योत्पत्तिः
सहशापरभावग्रहकृतश्चार्वाद्गर्शनानामेकत्वविभ्रमो लूनपुनर्जातेष्विव केशनखादिष्विति किं नेष्यते ? ।
[$ ४०. नैयायिकाभिमतस्य भावास्वभावरूपसामर्थ्यस्य निरास:।]
अथ सामर्थ्य सहकारिप्रत्ययसान्निध्यलक्षणमेवेत्यतत्स्वभा25 वमिति नापूर्वोत्पत्तिप्रसङ्ग [T 290a.] इति नैयायिकादयो मन्येरन् अत्राह - " अतत्स्वभावत्वे" सामर्थ्यस्येष्यमाणे “ स " बी. जादिः पदार्थः “प्रागिव” तद्रूपापरित्यागात् “ पश्चादप्यकारक एव "। १. तेषां सामर्थ्यस्यासाम° - T.। २. रहित । ३. °स्यैवाननुभूतपूर्व T.। ४. °दिः समर्थः
पदा° T.I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org