________________
भावादभिन्नस्य सामर्थ्यस्य निरासः।
११९ भावः अन्यथाऽस्याक्षणिकतैव हीयेतेति । सिद्धान्तवाद्याह - “किन्न करोति" इति। नहि समर्थस्याक्रिया, सहितस्यावस्थायामिव युज्यत इति सहितस्यैव क्रियामिच्छता केवलस्यासमर्थस्वभावतैवोपगन्तव्या।
अथ मतम् - केवलस्य यदि शिरश्छिद्यते तथापि न करो- 5 तीत्यत आह " अकुर्वन् ” इत्यादि । कार्यानुमेयं हि सामर्थ्य न च केवलस्य कदाचिदपि कार्यक्रियाऽस्तीति कथं सामर्थ्य कल्प्यते ? । नायं नियमः यत् समर्थस्वभावेनावश्यमेव कार्य कर्तव्यम् , अन्यथाऽपि दर्शनात् इति मन्यमान [S. 119a.] आह परः - " कुविन्दादयः " इत्यादि । सिद्धान्तवाद्यपहसन्नाह " क्रीडन-10 शीलः ” इत्यादि । देवानांप्रियः ऋजुः मूर्यो वा [T. 289a.] सुखसंवर्धितत्वात् रमणस्वभावः, क्रीडनं बालधर्मः, तत्साधर्येण प्रज्ञावैकल्यं दर्शयति, सुखैधितत्वेन शास्त्रेष्वनभियोगम् । यो ह्यनभियुक्तो दुर्बुद्धिश्च स " कृतमपि ” वस्तु विस्मरणप्रकृतित्वात् पुनः पुनः “ कारयतीति " पुनः प्रतिविधापयति । क पुनरेतत् 15 प्रतिविहितम् ? इत्याह - “ तथाहि " - इत्यादि । ' बीजादिवदनेकान्तः' इत्यनेन प्रस्तावेन निर्लोठितमेवैतत् ।
तदेवमक्षणिकस्य समर्थस्वभावत्वे सहितस्यैव कार्य क्रियास्वभावत्वविरोधात् केवलस्याक्रियाऽनुपपन्नेति प्रतिपाद्योपसंहरनाह - " तस्मात् तत्खभावस्य” कार्यक्रियासमर्थस्य "अन्यथात्वासम्भा(म्भ)- 20 वात्” कदाचिदसमर्थत्वाभावात् “ तद्धर्मणः " कार्यक्रियाधर्मणः तथाभावः कार्यक्रिया "अन्त्यावस्थावत् सहितावस्थायामिव "अनिवार्यः।
[$ ३९. मीमांसकसंमतस्य भावस्वभावरूपसामर्थ्यस्य निरास:।]
स्यान्मतम् - केवलोऽयमक्षणिकोऽसमर्थ एव । ततः केवलो न [S. 119b.] करोति, सहितावस्थायां त्वस्य सामर्थ्य सहका- 25 रिभ्यो जायते । ततः सहित एव करोतीत्यत आह - " अन्त्यावस्थायां सामोत्पत्तौ " कीदृशस्य "प्रागसमर्थस्य " सतः ॥ तस्य साम
र्थ्यस्य ” यस्य तदुपजायते " तत्स्वभावत्वे ” मीमांसकादिभिरिष्य. १. पृ. ८३. पं. १५ । २. त्यैवैककार्य° T.1 ३. उस्य क्रिया - T.। ४. °चिदप्यस° - T.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org