________________
११८
हेतुबिन्दुटीका । इममेवंविधं [S. 118a.] हेतुफलभावप्रतिनियम निरवद्यमाध्यात्मिकेषु दर्शितम् [T. 288a.] अन्यत्राप्यतिदिशन्नाह – “अनेन न्यायेन इत्यादि । योऽयमनन्तरं हेतुफलभावप्रतिनियमे न्याय उक्तः सोऽन्यत्राऽपि " सर्वत्र " द्रष्टव्यः । सर्वत्रेति वचनात् अ5 क्षणिकेष्वपि प्रतीतिर्मा भूत् इत्याह - " प्रतिक्षणम्” इत्यादि । याः क्षणे क्षणेऽन्याश्चान्याश्च स्वभावभेदान्वयिन्यः शक्तयो भवन्ति तत्रायमेकार्थक्रियाप्रतिनियमः सहकारिणां द्रष्टव्यः । न तु ये स्थिरैकस्वभावा भावाः परैः कल्प्यन्ते तेष्वपि । स्थैर्य सन्तानाश्रयेणापि व्यपदिश्यतेत्येकग्रहणम् । क्षणेऽप्येकत्वमस्तीति स्थि10 रग्रहणम् ।
[६३८. अक्षणिके एकार्थक्रियाकारित्वस्याभावः। ] कस्मात् पुनः स्थिरैकस्वभावेषु नेष्यते ? इत्याह – “खभाव-" इत्यादि । कामं भावः वयं न भवेत् । न तु खत एव खभावस्या
न्यथात्वं सम्भवति । ततश्च स्थिरः पदार्थों यदि कार्योत्पादनस15 मर्थखभावः ततोऽस्याक्रिया नोपपद्यते इति सर्वदैव कुर्यात् ।
अथासमर्थखभावः, तदापि क्रियाऽनुपपन्ना, सर्वदैव न कुर्यादिति भावः । यत्तु कदाचित् करोति कदाचिन्न [S. 118b.] इत्येतन्न लभ्यते । ततश्चाक्षणिकानां तत्कार्यक्रियासमर्थस्वभावत्वे
सहितासहितावस्थयोरेकरूपत्वात् केवलानामपि तत्कार्य क्रिया20 प्रसङ्गेन कुत एकार्थक्रियाप्रतिनियमलक्षणं [T. 288b.] सहकारित्वं सम्भवेत् ?। ___ अत्र पर आह - “ अभ्यसहितः” इत्यादि । यद्यपि केवलस्याप्यक्षणिकस्य समर्थः स्वभावः तथापि अन्यसहितः करोति न केवलः । अयमपि ह्यस्य स्वभावः यद्-'अन्यसहितेन स्वकार्य क25 तव्यम् न समर्थस्वभावेनापि सता केवलेन' इति ।
सिद्धान्तवाद्याह - " किं केवलस्य " इत्यादि । अन्यसहितेनैव स्वकार्य कर्त्तव्यं न केवलेन इत्येतत् केवलस्यासमर्थस्वभावत्वे - युज्यते नान्यथेति मन्यमानस्य प्रश्नः। परस्त्वनवगताभिप्राय
आह - “ समर्थ ” इति । केवलस्याप्यक्षणिकस्य समर्थ एव स्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org