________________
क्षणिकेषु हेतुफलभावव्यवस्था । ननसमर्थस्य वा “ कारणम् । न सर्व सर्वस्य । तथा च व्यग्राणां क्षितिबीजादीनामङ्कुरजननस्वभावता समर्थक्षणजननस्वभावता वा नास्त्येवेति तत्स्वभावस्य जननादजनकस्य चातत्स्वभावत्वादित्यत्र नानेकान्तः यतो यो यत्स्वभावः स स्वहेतोरेवोत्पद्यमानः तादृशो भवति न पुनस्तद्भावे हेत्वन्तरमपेक्षत इत्यत्रानेकान्त: 5 स्यादिति । प्रत्यभिज्ञानस्य च सरूपताविषयस्य सामग्रीभेदादनुमितभिन्नशक्तिस्वभावत्वेन बाध्यमानतया प्रामाण्याभावात् न ततः सरूपतासिडिः क्षणक्षयिणामिति । . पूर्वं च 'अत एवान(एव त)योरवस्थयोवस्तुभेदो निश्चयः, इत्यादिना [S. 116b.] एकत्वविषयं प्रत्यभिज्ञानं निरस्तम्। अधुना 10 तु तुल्यस्वभावताविषयमिति भेदः । एतदपि तत्र 'अपरापरोत्पत्तेः' इत्यनेनोक्तमेव । विपञ्चनार्थ तु पुनः इह उपन्यस्तम् ।
[३७. क्षणिकेषु हेतुफलभावव्यवस्थायाः कथनम् । ] किञ्चिदेव कस्यचित् कारणम् इत्युक्तम् तत्र किं कस्य कारणमिति शक्यपरिच्छेदमप्याध्यात्मिकेषु तावद् दर्शयन्नाह - "तत्र" - 15 इत्यादि । “ तत्र " तेषु प्रतिक्षणं शक्तिस्वभावेषु क्षणिकेषु भावेषु । व्यवधानं - व्यवधीयते येन , तदादिर्येषां अतिदूरात्यासन्नत्वादीनां तेऽविद्यमाना यस्मिन् देशे सोऽव्यवधानादिः देशो यस्य सोऽव्यवधानादिदेशः, [T. 287a.] रूपमिन्द्रियं चादी यस्य मनस्कारादेः स रूपेन्द्रियादिः स चासौ कारणकलापश्च सा- 20 मग्रीलक्षणस्तथोक्तः , अव्यवधानादिदेशश्चासौ रूपेन्द्रियादिकारणकलापश्च स " विज्ञानजनने समर्थो हेतुः " नान्यः, तद्भाव एव तस्य भावात्, अन्यभावेऽपि चाभावात्, एतन्मात्रनिबन्धनत्वाच समर्थासमर्थव्यवस्थायाः। “यस्तेषामिन्द्रियादीनां "परस्परोपसर्पणस्य” अन्योन्यढौकनस्य। “आदि"ग्रहणाद् व्यवधानापनयना.... 25. [S. 117a.].................................................. [s. 117b.]...... [सामग्यधीनत्वेनासंभवादिति ।
१. पृ. ८४. पं० ५। २. पृ. ८८. पं० २५ । ३. विषयनिवेदनार्थम् - T.। ४. अव्यवधीयमानाT.। ५. सरूपे° - T.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org