________________
११६
हेतुबिन्दुटीका। आह - “ तानि " स्वकारणानि क्षितिबीजादीनि “एन” समर्थम् "अपरस्य” अन्यस्य प्रत्ययस्थ “सन्निधान एव किं” कस्मात् “जनयन्ति” ? न केवलानि ?, सहितानामेव सर्वदा सम्भवात् इति चेत्
आह - " कदाचित् ” कस्मिंश्चित् काले “ अन्यथाऽपि " केवला अपि 5 " स्युः " भवेयुः। तथा हि - दृश्यन्त एवाध्यात्मिकबाह्याः कचित् कार्ये यादृशा यत्सहिताः तादृशा एव तद्रहिता अपीति । [T. 286a.] जनयन्तु केवला अपि सम्भवन्तः समर्थम् , को दोषः ? इति चेदाह - " ततश्च ” केवलानामपि समर्थजनकानां सम्भवा
त् "एकोऽपि न केवलमनेकः "क्वचिद्देशादौ [S. 115b.] समर्थः उ10 त्पन्नः क्षितिबीजादिङ्कुरादिकार्य “ जनयेत्” यदि तत्स्वभावस्यावश्यं जनकत्वम् । न च केवलो जनयति तत्स्वभावसम्भवेऽपि ततोऽनेकान्त इति परः।
एतत् परिहरन्नाह - “ अपरापर-"इत्यादि । अपरैश्चापरैश्च कुशूलतद्पनेतृपुरुषप्रयत्नपिटकादिप्रक्षेपक्षेत्रनयनप्रकिरणादिभिः 15 " प्रत्ययैर्यो “ योगः " तेन कारणेन “ प्रतिक्षणं भिन्नशक्तयो" न कदाचित् पूर्वापरकालभाविन एकशक्तयः अपरापरप्रत्यययोगलक्षणहेतुभेदेऽप्यभिन्नशक्तितायामहेतुकत्वप्रसङ्गात् । अन्यत्रापि च शालियवबीजादौ शक्तिभेदस्य हेतुभेदनिबन्धनत्वात् ।
___ " संस्काराः ” समेत्य सम्भूय च प्रत्ययैः क्रियमाणाः " सन्त20 न्वन्तः ” सन्तानेन भवन्तो " यद्यपि कुतश्चित् साम्याद् ” वर्णेन संस्थानेन अन्येन वा केनचित्प्रकारेण सादृश्यादेकाकारपरामर्शप्रत्ययजननलक्षणात् समान रूपमेषामिति “ सरूपाः " सदृशाः "प्रतीयन्ते” प्रत्यभिज्ञायन्ते "तथापि” कृत्रिमाकृत्रिमाणामिव मणिमुक्तादीनामपरापरप्रत्यययोगलक्षणसामग्रीभेदाद् “ भिन्न एव " 25 विसदृश एव न प्रत्यभिज्ञानवशादभिन्नः तुल्यरूप " एषां ” बी
जादीनां " स्वभावः " [T. 286b.] यत एवं "तेन" भिन्नस्वभावत्वेन भिन्नशक्तितया वाऽपरापरसामग्रीजन्यत्वेन क्षणानां सिद्धया " किश्चिदेव " क्षितिबीजादिकं “कस्यचि”देव कार्यस्याङ्कुरादेस्तज्ज१. भेदेपि भिन्न - T.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org