________________
क्षणिके वेवैकार्थक्रियानियमः ।
११५
भवेत् तदा तस्यान्त्यत्वमेव हीयेत । हीयेनां ( हीयतां ) को दोष: ? इति चेत्; "ततश्च" अनन्त्यत्वात् "न साक्षात् कारणं स्यात् " । यत एवं “ तस्मान्न कारणस्य ” मुख्यस्य "सहकारिभ्यः " संकाशाद् “विशेषस्योत्पत्तिः” इत्येकार्थक्रियैव सहकारित्वमिति ।
नन्वसत्यां सहकारिभ्यो विशेषोत्पत्तौ कार्यजनने सामर्थ्य - 5 मेषां न युज्यत इत्यत [S. 114b. ] आह - " ते समर्थाः " इत्यादि । यदि हि ते खभावेनासमर्था उत्पद्येरन् तदैषां सहकारिभ्यः सामर्थ्योत्पत्तिरभ्युपगम्येत । यावता "तेऽन्त्याः स्वभावेनैव समर्थाः प्रत्ययाः सहिता जायन्ते " क्षणमात्रविलम्बिनो । “येषा" मेकक्षणनियतत्वात् ततः " प्राकूपश्चात्पृथक्त्वभावो नास्ति । येभ्यश्चानन्तरमेव कार्यमुत्पद्यते " 10 न कालान्तरेण " तत्र " तेष्वेवंविधेषु " एकार्थक्रियैव सहकारित्वम् " नातिशयोत्पादनलक्षणम् ।
स्वभावतः सामर्थ्यस्य [T. 285b. ] भावविरोधात्, परस्परतश्वानभ्युपगमात् समर्थस्य जन्मैवायुक्तमिति मन्वानः परः आह · “ समर्थः कुतः " इत्यादि । सिद्धान्तवाद्याह - "स्वकारणेभ्यः " 15 इति । परमतापेक्षया तु स्वभावत इत्युक्तम् । परो त्यन्तस्य(ह्युत्पन्नस्य) कारणस्य सहकारिभ्यः सामर्थ्यमिच्छतीति तन्निषेधपरं स्वभावत इति वचनम् । न तु स्वभावतः किञ्चिज्जायते, तस्याहेतुकत्वप्रसङ्गात् ।
[8 ३६. क्षणिकेष्वेकार्थक्रियानियमस्य व्यवस्थापनम् । ]
एकार्थक्रियानियम एव क्षणिकानामयुक्तः, केवलानामप्यंत्यक्षणसरूपाणां दर्शनात् । तथाहि - ' इदमेवंरूपं नैवं च' इति दर्शनादर्शनाभ्यां [S. 115.] विभज्यते । तत्र यादृशाः क्षित्यादयस्तदन्यप्रत्ययसन्निधावुपलभ्यन्ते तादृशा एव केवला अपि । ततस्तदन्यसहिता इव केवला अपि समर्थमङ्कुरजनने स्वं स्वं 25 क्षणान्तरमारभेरन् । ततः केवलस्याप्यङ्कुरादिजननखाभाव्यादजननाच्च ' तत्स्वभावस्य जननात्' इत्यनेकान्त एवेति मन्यमानः पर
लम्बिनो जन्मनस्तेषामेक
१. साक्षाद् T. । २. निषेधाय परं - T. ।
Jain Education International
20
-
T. । ३. ह्युत्पाद[क] स्य - T. । ४. त
For Private & Personal Use Only
www.jainelibrary.org