________________
११४
हेतुबिन्दुटीका। वति। का तर्हि सहक्रिया ? इत्याह – “ एकार्थकरणम् ” एककार्यनिष्पादनं यद् " बहूनाम् ” । “ अपिः ” सम्भावनायाम् । [S. 113b.] न्यायवलादेवंविधामेव सर्वत्र सहक्रियां सम्भावयामः, नान्यामिति । अत्रोदाहरणम् - " यथा अन्त्यस्य , अनन्तराङ्करादि5 कार्यस्य " कारणकलापस्य " प्रत्ययसामग्या इति ।।
[$ ३५. एककार्यकारित्वमेव मुख्यं सहकारित्वमितरत्तु गौणम् । ]
स्यादेतत् - औपचारिकमेतत् सहकारित्वम् , अतिशयोत्पादनमेव तु मुख्यम् इत्यत आह - " तदेव " एककार्यकरणलक्षणं " मुख्यं सहकारित्वम् ” नातिशयोत्पादनलक्षणम् , तस्यैव गौण10 त्वात्। एतच्चोत्तरत्र वक्ष्यते । कुत एतत् ? इत्याह - "तस्यैव अन्त्यस्य" विवक्षितकार्य प्रति “ कारणत्वात् ” । कारणस्य च सहकारिव्यपदेशः नाकारणस्य । यतः सह -युगपत् कुर्वन्तः सहकारिण उच्यन्ते, अन्त्यश्च कारणकलाप एवंविध इति । यथा चान्त्यस्यैकार्थकरणं
सहकारित्वम् एवं पूर्वस्यापि कारणकलापस्योत्तरोत्तरविशिष्ट15 क्षणान्तरारम्भिण इत्यवसेयम् , अन्त्यस्योदाहरणतया निर्देशात्।
तस्मात् सर्व कार्यमङ्कुरादिकं विशेषलक्षणं वाऽनेकप्रत्ययजन्यमिति । सर्वत्रैकार्थक्रियैव चोपचीयमानापचीयमानकार्यकारिणः कारणकलापस्य सहकारित्वम्, न विशेषोत्पादनमिति ।
स्यादेतत् - एकार्थकरणमपि तत्र [S. 114a.] सहकारित्व20 मस्तु अतिशयोत्पादनलक्षणमपीत्यत आह - " तत्र च" क्षणेऽन्त्ये "विशेषस्य कर्तुमशक्यत्वात्" नातिशयोत्पादनमपि सहकारित्वम् । कुतो विशेषस्य [T. 285a.] कर्तुमशक्यत्वम् ? इत्यत आह - " एकस्य " अनंशस्य "स्वभावस्याविवेकात् । न हि तत्र' अयमनाहितातिशयो भागः खहेतुभ्यो जातः, अयं तु सहकारिभिराहिताति25 शयः' इति विवेकोऽस्ति । यदि नामाविवेकः, विशेषस्तु किमिति
न क्रियते ? इत्यत आह - " खभावान्तरोत्पत्तिलक्षणत्वाद् विशेषोत्पत्तेः ", निर्भागे च कुतः स्वभावान्तरस्य व्यवस्था ? ।
स्यान्मतम् - भिन्नखभाव एवान्त्यस्य विशेषोऽस्तु इत्यत आह - " भावान्तर-इत्यादि। यदि भावान्तरलक्षणो विशेषो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org