________________
एकार्थकारित्वमेव सहकारित्वम् ।
११३ धारः, अतिप्रसङ्गात् । ततो भिन्नकालस्याधारभावो न विरुध्यते । यदपि भूतानामुपादायरूपं प्रत्याश्रयत्वमुच्यते तदपि ख- . देशस्यास्य जनकत्वमेवेति न किञ्चित् प्राग्जनकं भूत्वा पश्चात् स्थापकतामुपैति, यतोऽनेकान्तः स्यादिति ।
[$ ३४. अतिशयोत्पादनं न सहकारित्वं किन्तु एकार्थकारित्वम् । ] 5
पुनरन्यथा तत्स्वभावस्य जननादित्यनेकान्तोद्भावनं परस्याशङ्कयाह - " अप्रतिरोधशक्तिकेषु " अविद्यमानः प्रतिरोध:प्रतिबन्धो यस्याः शक्तेः सा येषाम् [T. 284a.] । अप्रतिरोधशक्तिकत्वं चानन्तरकार्यत्वात् । ये ह्युत्पन्नाः कालक्षेपेण कार्य कु
वन्ति तेषां स्यादपि शक्तिप्रतिबन्धो, न तु य उदयानन्तरमेव 10 कार्य कुर्वन्ति । अनेन क्षणक्षयिणामुपघातकाभावमाह । अनु· ग्राहकविरहमप्याह - “ अनाधेयविशेषेषु "। तच्चानाधेयविशेषत्वं "क्षणिकेषु " इत्यनेनाह । नहि क्षणिकानां विशेष आधातुं शक्यते, विशेषाधायकेन तत्सहभाविना तदनन्तरं तदुत्पादनात् । तदा [S. 113a.] च तस्य निरोधात् । तेष्वेवंविधेषु " प्रत्ययेषु परस्परं 15 कः सहकारार्थः " येन सहकारिण उच्यन्ते ? । नन्वनाधेयविशेषत्वेनैव सहकारित्वाभावः प्रतिपादित इति किमर्थमिदमप्रतिरोधशक्तिकेष्विति ?। नहि शक्तिप्रतिरोधकः सहकारी भण्यते । सत्यम् । सर्वथा तु तत्राकिश्चित्करत्वज्ञापनार्थमेतदुक्तम् । शक्तिप्रतिबन्धकापनयनेन चोपकारित्वकल्पनां सहकारिणां निर- 20 स्यति । तस्मादतिशयाधायिनः सहकारिणोऽसम्भवात् क्षणिकानां खहेतुमात्रप्रतिबद्धमेव जनकत्वम्। तच्चैवंविधं सर्वदाऽस्ति । न च केवला जनयन्तीति तत्स्वभावस्य जननादित्यनेकान्त एवेतिं मन्यते।
एतत् परिहरति - "न वै” नैव अतिशयोत्पादनं सहक्रिया 25 यतस्तभावात् सहकारिणो न स्युः । क पुनरतिशयोत्पादनं सहक्रिया प्रत्ययानां न भवति ? । “ सर्वत्र ” । नहि कचिदपि सहभाविनामतिशयोत्पादनलक्षणा [T. 284b.] सहक्रिया सम्भ
१. °रूपं प्रवृत्तित्वं T.। २. स्थापनाहेतुर्भवति T.। ३. योपादानम्-T.। ४. योपादान-T.। १५ हे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org