________________
१२२
हेतुबिन्दुटीका। घ्यन्तरस्य तु कार्यान्तरप्रभवशक्तिनिबन्धनेभ्यो हेवन्तरेभ्यः खभावभेदवतो भावाद् भिन्नकार्यप्रसूतिरिति कुतो विशेषाभावः ।
[३३. जनकत्वमेवाधारत्वं न तु स्थापकत्वम् । ] 5 ननु च सर्व कार्य साधारं यथा उपादायरूपम् । तद्धि भूतेभ्यो जायमानं तान्येवाश्रयत इति भवद्भिरिष्यते। तथाऽन्यदपि विज्ञानादिकं कार्यम् । अतोऽनेनापि किञ्चित् कारणमाश्रयणीयम् । तस्य च कारणस्य पूर्व जनकत्वं पश्चात् [S. 112a.] कार्य प्रत्याधारभाव एव, न जननम्, ततस्तत्खभावस्य जननादि10 त्यनेकान्तः तदवस्थ एवेत्यत आह – “ त एवैते " येऽनन्तरमुक्ताः
" कारणशक्तिभेदाः” कारणानां शक्तिविशेषाः। कीदृशाः ?" यथास्वं" येषां कारणशक्तिभेदानां सहकारिलक्षणानां यदात्मीयं सामग्यन्तरजन्यात् प्रतिविशिष्टं कार्य तस्य जननेऽव्यवधेया व्यव
धातुं [T. 283b.] प्रतिबन्डुमशक्या शक्तिर्येषां तद्भावस्तया “ अ15 व्यवधेयशक्तितया " अवश्यं कार्यकारिशक्तितया " प्रत्युपस्थिताः"
उद्युक्ताः सन्तः “ सामग्रीकार्यस्य " एकप्रत्ययजनितस्य कस्यचिदभावात् सर्व सामग्या एव कार्यमिति कृत्वा सामग्रीकार्यस्य खभावस्थित्याश्रय इत्युच्यन्ते । कस्मात् पुनरव्यवधेयशक्तिता? " क्षणिकत्वात् । नहि क्षणिकस्य शक्तिः प्रतिबन्धुं शक्यते, खभा20 वान्तरोत्पादने यावत्प्रतिबन्धको व्याप्रियते तावत् क्षणिकस्य खकार्य कृत्वैव निरोधात् ।
कथं पुनरसमानकालं कारणमाधारो युज्यते ?, इत्यत आह - " तथा हि” इत्यादि । यस्मात् “तत्" विज्ञानलक्षण कार्य “ तेभ्यः " चक्षुरादिभ्य “ समस्तेभ्यो " बोधरूपतया तदन्यस्मात् तदजन्यात् 25 [S. 112b.] " प्रतिविशिष्टस्वभावमेकं " खण्डशः कार्यस्यानुत्पादादेकै
कस्मात् सकलस्यैव भावादेकं जातम् , तस्मात् ते आधारा उच्यन्ते । नहि जनकादन्य एवोपकारकः । न चानुपकारक आ
१. साधनाधारम् T.। २. मानम् अन्यमेवाश्रयते T.। ३. येषां स्वभावस्तया - T.। ४. °स्य क्वचिदप्यभावात् - T.। ५. °न्तरमाश्रित्य या° - T.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org