________________
कारणभेदेऽपि कार्यस्यैक्यम् ।
एतदेव विभजन्नाह " तथाहि ” इत्यादि । या चक्षूरूपर
-
हिता
समनन्तरप्रत्ययाख्यविज्ञानलक्षणा
प्रत्ययान्तरसापेक्षा सामग्री, ततो विज्ञानस्य [T. 282b.] विकल्पकस्येतरस्य वा तदुपादेयत्वेन या बोधरूपतोपलब्धा सा चक्षुविज्ञानस्यापि भवति । " तस्यैव " चक्षुविज्ञानस्य । कीदृशस्य ? । “उपलम्भात्मनः सतो भवतः " 5 जायमानस्य तदैव तदेककार्यप्रतिनियतस्य चक्षुरिन्द्रियस्य सन्निधानात् [S. 111a.] समनन्तरप्रत्ययोपादानोपकृतात् ततो " रूपप्रतिनियमो " रूपाकारताप्रति नियमः शब्दाद्याकारविवेकवत एवं (व) कार्यस्य चक्षुः सहितसमनन्तरप्रत्ययसामग्र्याः जनकत्वाद् । “ विषयाद् ” विषयाधिकात् समनन्तरप्रत्ययादिन्द्रियाच्च 10 " तेन " विषयेण " तुल्यरूपता " न केवलैव रूपप्रतिभासिता भ्रान्तविज्ञानस्येवेति विषयेन्द्रियमनस्कारलक्षणसामग्री कार्यमेवं प्रदर्शितम् । तदन्यदेकद्रयजन्यं तु कार्य स्वयमभ्यूह्यम् । अत्राभिन्नत्वेऽपि वस्तुतः " कार्यस्य" चक्षुर्विज्ञानलक्षणस्य " कारणानां " विंषयेन्द्रियमनस्काराणां भिन्नेभ्यः खभावेभ्यः केवलानामेषां यः 15 स्वभावस्ततो भिन्ना वातज्जन्येभ्यो विधिशे (न्येभ्योऽपि विशेषा बोधरूपतादिलक्षणा “ भवन्ति ” । अंतज्जन्यापेक्षया चैकात्मका अपि बहुत्वेन निर्दिष्टाः । यत एवम् "इति” तस्मात् न कारणभेदेऽपि । [ S. 111b.] यथैकसामध्यन्तर्गतप्रत्यय भेदेऽप्यभेदो नैवं सामग्रीलक्षणकारणभेदेऽप्यभेदः सामन्यन्तरजन्येभ्यः “कार्यवि- 20: शेषस्य" विशिष्टस्य कार्यस्येति ।
१११
,
तेन यदुच्यते - [T. 283a. ] 'यदि सहकारिणां भेदेऽप्यभिन्नं कार्य भवति सामग्रीभेदेऽप्यभिन्नमस्तु अथ सामग्रीभेदाद् भिन्नं भवति सहकारिभेदादपि किमिति भिन्नं न भवति विशेषाभावात् ? इति तदपास्तं भवति । तथा हि - परस्परोपसर्पणाद्या - 25. श्रयात् प्रत्ययविशेषादेककार्यादेशेनेतरेतर सन्तानोपकाराच सहकारिणां प्रतिनियतशक्तीनामुदयादेकं कार्य सेमाजायते । साम
Jain Education International
१. एव T. । २. °धिकारात् T. । ३. एव तज्ञ्ज T. । ४. अतो जनकापेक्षया T. । ५. कार्य न जायते - T. I
For Private & Personal Use Only
www.jainelibrary.org