SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ११० हेतुबिन्दुटीका। उपसंहरन्नाह - " तेन सहकारिणः” इत्यादि। येन - प्रत्ययान्तरप्रचये तद्रिकलसामग्र्याः सामग्रयन्तरं सम्पद्यते, तच पूर्वसामग्रीजन्याद् भिन्न कार्यान्तरमेव जनयति; एकसामग्रीव्यपदेशविषयाणां च सहकारिणामनेकत्वेऽप्यनेकस्यैकक्रियाविरोधा5 भावात् तदन्वयव्यतिरेकानुविधायिनश्च कार्यस्यैकस्य दर्शनात् खभावत एकत्वं साधितम् - तेन कारणेन सहकरणशीला एकसामग्यन्तर्गताः प्रत्ययाः सामग्र्यन्तरैः सह “ नैकोपयोगविषयाः ” एक उपयोगस्य विषयो येषां ते न भवन्ति, सामप्रयन्तरैरेव सह भिन्नोपयोगविषयत्वस्थ न्यायबलात् प्रतीतेः। 10 अनेन यत् प्राग विकल्पितं 'यदि कारणशब्देन सामग्री भण्यते तदा तद्भेदादस्त्येवातत्सामग्रीजन्येभ्यः कार्यस्य भेद इति किमुच्यते-न कारणभेदादू भेदः [T. 282a.] स्यात् ' इति एतदुदा हरणोपंदर्शितं निगमितम् । अथ कारणशब्देन सामग्रीव्यपदे शविषयाः सहकारिण उच्यन्ते तदा त दादनेकत्वलक्षणात् का15 यस्यानेकत्वलक्षणो भेदो नेष्यत एव, अनेकस्यैकक्रियाविरोधा भावात्, एकस्यानेकत उत्पत्तिदर्शनाचेति मृत्संस्थानयोरेकात्मकतोपदर्शितं [S. 110b.] निगमयति - ' कार्यस्वभावस्य ' मृत्संस्थानास्मन ‘एकत्वेऽपि ' नानात्वाभावेऽपि 'वस्तुतः । परमार्थतः कल्पनाबुद्धौ मृत्संस्थानयोभिन्नयोरिव प्रतिभासनेऽपीति । 20" एवम् उदाहरणे सामग्रीभेदात् कार्याणां भेदो नैकसामग्रीविषयप्रत्ययभेदादनेकत्वं कार्यस्येति प्रतिपाद्य प्रकृते चक्षुरादौ योजयन्नाह - " यथा इहो”दाहरणे “ कारणभेदः " सामग्रीभेदः कुलालविकलमृत्पिण्डतत्सहितसूत्राधिकसामग्रीत्रितयलक्षणो 'भिन्नेषुः नानाखभावेषु 'विशेषेषु , इष्टकादिचक्राविभक्तघटतविभक्त. 25 घटलक्षणेषूपयोगा"नैककार्यः" किन्तु भिन्नकार्य एव, “तथा तेनैव प्रकारेण चक्षुरादिभ्यो विज्ञानस्योत्पत्ती सामग्यन्तरात् सामग्रीलक्षणकारणभेदोऽनेककार्य इत्युन्नेयः । १. °णोपदर्शनात् निग° - T. २. विषयेषु T. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy