________________
द्रव्यगुणयोरभेदस्योपपादनम् ।
[$ ३१. द्रव्यगुणयोरभेदस्योपपादनम् । ] सिद्धान्तवाद्याह – “ एवम् ” इत्यादि । यदि [S. 109a.] परस्परसम्बन्धयोग्यतायां कुलालमपेक्षते “ एवं तर्हि सा योग्यता मृद्रव्यस्य कुलालाद् भवति इति " आपन्नम्।न च “ अनयोः मृद्रव्ययोग्यतयोः खभावस्य " भेदः " नानात्वम् । यदि हि स्यात् तदा योग्यतायाः द्र- 5 व्यात् पृथक्करणं " प्राग्वत् प्रसज्येत " । अथ योग्यताया अपि योग्यपारतन्त्र्यादपृथसिद्धिं ब्रूयात् तदा तस्या अपि वस्तुधर्मतयैव प्रागपि समावेशो मा भूदिति द्रव्येण सह सम्बन्धयोग्यताया अन्या योग्यता कुलालाद् भवतीत्येष्टव्या। साऽपि पृथक्करणप्रसङ्गात् ] द्रव्याद भिन्नखभावा नोपगन्तव्या। पृथकरणप्रसङ्गे वा 10 पुनः स एव परिहारः तदीयः, पुनस्तदेवोत्तरम्, इत्यनवस्थाप्रसङ्गावश्यमभिन्नखभावता कपालात्मकमृद्रव्ययोग्यतयोरभ्युपगन्तव्या। किमेवं सति सिद्धं भवति ? इत्यत आह - " अस्ति तावत्" इत्यादि । मृत्पिण्डकुलालाभ्यां कपालद्रव्यस्य [S. 109b.] संयोगविशेषसम्बन्धयोग्यस्यारम्भात् यदैकस्वभावत्वेऽप्येकस्या- 15 नेकप्रत्ययोपाधेयविशेषता तदा सिंडः आस्माकीनः पक्षः । ततश्च किमस्माकं मृत्संस्थानयोरेकस्वभावत्वसाधनाय अतिनिबन्धनेन । [T. 281b.] यदि योग्यतामप्याश्रित्यानेकप्रत्ययजन्यत्वेऽप्येकत्वात् नानात्वप्रसङ्गाभावः सिध्यति कार्यस्य, न किश्चिद् द्रव्यगुणवादनिराकरणेनेह प्रयोजनम्, अन्यत्रैव तन्निराकरणस्य 20 कृतत्वादित्यभिप्रायः। निर्बन्धग्रहणेन च मृत्संस्थानयोरपरस्परात्म-:: तया संस्थानमत्स्वभावविशेषाभ्यां तयोरप्रतिभासनप्रसङ्गात् इत्यनयोपपत्त्या साधितमेवानयोरेकत्वम् , युक्त्यन्तराणां सम्भवेऽपि तदभिधानलक्षणो निर्बन्धो न क्रियते, प्रकृतसिद्धेरन्यः थाऽपि भावादित्याचष्टे ।
25 [$ ३२, सामग्रीभेदे कार्यभेदस्य कारणभेदेऽपि च कार्यस्यैक्यस्योपसंहारः।] .
तदेवं सामग्रीभेदात् [S. 110a.] सामग्र्यन्तरजन्येभ्यो भेदः सहकारिणामनेकत्वेऽपि च कार्यस्यैकत्वमविरुद्धमिति प्रतिपाद्य १. इत्युपपन्नम् - T.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org