________________
fot
हेतुबिन्दुटीका स्थानयोरपरस्परात्मतया " इत्यादिकमिति न संस्थानस्य मृद्रव्यादन्यत्वम् । ततो मृत्पिण्डोपादानाहितातिशयेन तत्कार्यक्षणसहकारिणा कुलालेन तदुपादानोपकृतात्मना तत्कार्यक्षणसहकारिणा मृत्पिण्डेन च प्रत्येकं सकलमेव मृत्संस्थानात्मकं कार्य क्रियत 5 इति न कारणानेकत्वेऽप्यनेकत्वमस्य । अत्रैवोपचयहेतुमाह - " अपि च " [T. 280b.] इत्यादि । यत् तद् घटगतं संस्थानं " यदि तत " मृदो “ भिन्नं स्यात् ” तदा कुलालः पृथगेव किमिति न करोति ? । नहि भिन्नानामावश्यकमपृथक्करणम्, कुलालश्चान्वयव्यतिरेकाभ्यां तस्य संस्थानस्य गुणात्मनः कारणतया गम्यत 10 इति “स पृथगपि ” तत् “ कुर्यात् "। पर आह - " गुणस्येत्यादि । "द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमनपेक्ष” [वैशे० १. १. १.६] इति गुणलक्षणात् सर्वदा [S. 108b.] गुणो द्रव्यपरतन्त्रः, स कथं कदाचित् पृथक क्रियेत ? । वैशेषिक एव बौद्धीयं चोद्यमाशङ्कयाह - " तत्संस्थान " इत्यादि । यदि स्वभावेनैव तस्य गुणात्मनः संस्थानस्य 15 " क्रियावद् गुणवद्” [वैशे० १. १. १५] इत्यादिवचनादाधारखभावं
तत् मृद्रव्यं, संस्थानं वा तथाविधं कपालाधेयात्मकं तदा किमिति कुलालव्यापारमपेक्षते ? । खत एव किं न भवति ? इति चोदकाभिप्रायः।
___ एवं चोद्यमाशङ्कय वैशेषिकः परिहारमाह - " न , ततः " 20 इत्यादि । यत् तत् मृद्रव्यं पृथुबुध्नोदराद्याकारं च संस्थानं त
योर्यः सम्बन्ध आधाराधेयलक्षणः तत्र या “ योग्यता " तां " द्वयमप्येतत् कुलालाश यतः प्रतिलभते तस्मात् “ कुलालमपेक्षते " कुलालानपेक्षायां दोषमाह - " अन्यथा " यदि तयोः परस्परसम्बन्धयोग्यतायां कुलालापेक्षा न स्यात् तदा खभावत एव मृत्पिण्डस्य 25 [T. 281a.] तथाविधसंस्थानसम्बन्धयोग्यत्वं भवेत् । तस्मिंश्च - सति वस्तुन एव तत्संस्थानसम्बन्धयोग्यतालक्षणा धर्माताऽ.
स्तीति कुलालसन्निधेः प्रागपि संस्थानविशेषेण सम्बन्धः स्यादिति वैशेषिकीयश्चोद्यपरिहारः।
MAAVAT
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org