________________
द्रव्यगुणयोरभेदे वैशेषिकस्य पूर्वपक्षः। अस्पष्टरूपा गम्यन्ते शब्देभ्योऽपि त एव हि । ततः केन सहेषां स्याद् भिन्नाभिन्नत्वकल्पना ? ॥ ३६॥ . निविभागस्य चानेकभिन्नदेशांशयोगिता। कथमिष्टा ? प्रतीतेश्चेत् क्षणध्वंसानुभाविनः ॥ ३७॥ पर्याया ये प्रतीयन्ते स्थेमानन्दवतो मताः। कुतोऽन्यतः प्रमाणाञ्चेद् बाधकादिह तत्समम् ॥ ३८॥ ऐकान्तिकावनन्यत्वाद् भेदाभेदो तयोवम् । .. अन्योन्यं वा तयोर्भेदो नियतो धर्मधर्मिणोः [S. 107b.] ॥ ३९ ॥ तयोरपि भवेद् भेदो यदि येनात्मना तयोः। - - पर्यायो द्रव्यमित्येतद् यदि भेदस्तदात्मना ॥ ४०॥ भेद एव तथा च स्यान्नैवैकस्य द्विरूपता। . . द्रव्यपर्यायरूपाभ्यां न वान्योऽस्तीह कश्चन ॥४१॥ स्वभावो यन्निमित्तात् स्यात् तयोरेकत्वकल्पना । ततस्तयोरभेदे हि स्वात्महानिः प्रसज्यते ॥ ४२ ॥ तस्य भेदोऽपि ताभ्यां चेद् यदि येनात्मना च ते । धर्मी धर्मस्तदन्यश्च यदि भेदस्तदात्मना ॥ ४३॥ भेद एवाथ तत्रापि तेभ्योऽन्यः परिकल्प्यते । तेषामभेदसिद्धयर्थ प्रसङ्गः पूर्ववद् भवेत् ॥४४॥ धम्मित्वं तस्य चैवं स्यात् तत्तन्त्रत्वात् तदन्ययोः ।
न चैवं गम्यते तेन वादोऽयं जाल्मकल्पितः ॥ ४५ ॥ " . ..20 इत्यलं बहुभाषितया । तदेवं मृत्संस्थानयोरेकस्वभावत्वे न कथञ्चिद्भेदसम्भव इति सहकारिणामनेकत्वेऽपि न कार्यस्यानेकत्वमित्यत्र भवत्येतदुदाहरणमिति। .. ...... . [$३०. द्रव्यगुणयोरभेदे वैशेषिककृतपूर्वपक्षस्योल्लेखः।] ... ... ___अत्र वैशेषिकमतमाशङ्कयाह - “ अन्यदेव " इत्यादि । “ सं- 25 स्थानं " यवयवसन्निवेश उच्यते । स च संयोगलक्षणत्वाद् गुणरूपः। “ ततो" मृद्रव्यादस्यान्यत्वं [S. 108a.] द्रव्यगुणयोरसंकीर्णस्वभावत्वात् । तेन यदि मृत्पिण्डस्य मृदात्मतायां व्यापारः कुलालस्य तत्संस्थानविशेषे कथ्यते, तदा तयोरत्यन्तभेदात् कारणानेकत्वात् कार्यानेकत्वं प्राप्तमिति । सिद्धान्तवाद्याह -30 -" उक्तमत्र " इति । मृत्संस्थानयोः स्वभावभेदे दूषणमुक्तम् “ मृत्स१. विकल्पकल्पितं स्पष्टमस्पष्ट रूपम् । २. द्रव्यसंस्थानयोर्यथाकार्यस्वभावत्वात् - T..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org