________________
द्रव्यपर्यायानेकान्तवादखण्डनम् ।
व्यावृत्तिभेदः कश्चित् स्यादू, वस्तुनो न कथंचन [S. 1062.] । संख्याभेदोऽपि नैवान्यो मतो वचनभेदतः ॥ ५ ॥
Jain Education International
ततोsपि कल्पितस्यैव कथञ्चित् स्याद् विभिन्नता ।
' येषां वस्तुवशा वाच' [प्रमाणवा० ३.६४ ] इत्यादेर्भ तु वस्तुनः ॥ ६ ॥
अविनाशोऽनुवृत्तिश्च व्यावृत्तिन्नश उच्यते । द्रव्याविनाशे पर्याया नाशिनः किं तदात्मकाः ? ॥ ७ ॥
नष्टाः पर्यायरूपेण ते चेदू द्रव्यस्वभावतः | किमन्यरूपता तेषां न चेन्नाशस्तथा कथम् ? ॥ ८ ॥
"
द्रव्यात्मनि स्थिते पश्चाद् भवन्तश्च तदात्मकाः । विरुद्धधर्म्माभ्यासेऽपि, केन, भूतं च किं यतः ॥ ९ ॥ पर्यायास्तत्र कल्प्यन्ते, भेदरूपं यदीष्यते । भिन्नं पर्यायरूपं हि द्रव्यरूपाद् भवेद् यदि ॥ १० ॥ तदैतत् स्यादभेदे तु नैतत् संबध्यते वचः । एकं जातमजातं च नष्टानष्टं प्रसज्यते ॥ ११ ॥ द्रव्यपर्याय योरकस्वभावोपगमे सति । ततो लक्षणभेदेन तयोन्नैव विभिन्नता ॥ १२ ॥ कार्यभेदात् स्वभावस्य तयोर्भेदो भवेद् यदि । स्वभावाभेदतो न स्यादभेदस्तु तथा सति ॥ १३ ॥ स्वभावस्यैव भेदेन किं भेदश्च न कीर्त्तित: ? । न हि पश्चाद्भवन् भेदः कार्याणां तस्य भेदकः ॥ १४ ॥ स्वभावस्यापि कार्यत्वान्नाशहेतोरयोगतः । एकान्तेन विभिन्ने च ते स्यातां वस्तुनी से च ॥ १५ ॥ तयोः केन, विभिन्नाभ्यामभिन्नस्य विभेदतः ।
१०
तेषामभेद सिद्धयर्थमभिन्नो [T. 2792.] यदि तूच्यते ॥ १६ ॥
अन्यः स्वभावस्तस्यापि तदभेदप्रसिद्धये ।
कल्पनीयः स्वभावोऽन्यः तथा स्यादनवस्थिति: [S. 106b. ] ॥ १७ ॥ न चानन्तस्वभावत्वमर्थसामर्थ्यभाविनि । ज्ञानेऽवभासते येन तथवोपगमो भवेत् ॥ १८ ॥ ऐकान्तिकत्वभेदः स्यादभिन्नाद् भिन्नयोर्यदि । भेद एव विशीर्येत तदेकाव्यतिरेकतः ॥ १९ ॥
१०५
For Private & Personal Use Only
10
5
10
15
20
30
१. प्रौढोक्तिपदम् । २. संख्याभेदात् वचनभेदरूपात् । ३. वचनभेदाद् वस्तुभेदः परेणापि कचिन्ना
श्रितः, यथा दारा इत्यादी इत्याह । ४ विभिन्नता । ५. शोनिवृत्ति T. ६. अनुपपद्यमानं च किम् इति यावत् । अनुपपद्यमानं हि गमकं भवतीति भावः । ७. अनुपपद्यमानात् । ८. यदि कार्यभेदाद् भेदः इष्यते तदा दूषणान्तरमाह । ९. स्वभाव । १०. यः पूर्वः स्वभावो यश्च कार्यभेदानुमितः, ते द्वे वस्तुनी स्यातामिति चार्थः ।
>
25
www.jainelibrary.org