________________
हेतुबिन्दुटीका ।
त्वमभ्युपगतम् ? । बहूनां चैकविज्ञानविषयत्वसम्भवात् नीलपीतादीनामेकताप्रसङ्गः । सर्व्वथेदं न कथञ्चिदपि सङ्गच्छते यदुत एकस्य द्वैरूप्यमिति । विज्ञानं तु नीलप्रतिच्छायतयोत्पद्यमानं पीतादिप्रतिभासव्यवच्छेदेन प्रतिविशिष्टं ख्याप्यते, न पुनरस्य 5 भावतो द्वे रूपे स्तः ।
१०४
अथ पुनर्द्रव्यपर्याययोः सम्मूच्छितत्वात् नरसिंहवदेकं शबलरूपत्वात् द्विरूपमुच्यते । तदयुक्तम्, नरसिंघ[ह]स्य शबलरूपत्वासिद्धेः । स ह्यनेकपरमाणुसङ्घातरूपः, ते च परमाणवः प्रत्येकं नरसिंहरूपा न भवन्ति, ऊर्ध्वभागस्तस्य सिंहरूपः, अ10 घोभागस्तु नररूपः, जात्यन्तरं च स एव नरसिंहाभ्यां स्यात्, न शबलरूपः । विचित्रं हि रूपं शबलमुच्यते । [S. 105b.] विचित्रता च नानास्वभावतां । नानास्वाभाव्ये चैकत्वं कुतः ? इति केवलमनेकत्वेऽपि बहुष्वेककार्यदर्शनात् सेनादिवदेकव्यवहारदर्शनकृतोऽयं विपर्यासो जडमतीनाम् ।
15 तदेवं तावत् प्रत्येकमहेतुत्वं देशकालस्वभावानामेकत्वप्रसाधने । समुदितानामपि व्यभिचारित्वं पर्यायैः । तथा हिपर्याया अभिन्नदेशकालस्वभावाश्च पर्यायरूपेण च भिद्यन्ते पूवाच धर्मधर्मिणोर्न्निषेधान्नोभयवादसम्भव इति ।
[$ २९. द्रव्यपर्यायाने कान्तवादखण्डनम् । ]
20
आह च
25
" द्रव्यपर्यायरूपत्वात् द्वैरूप्यं वस्तुनः किल । तयोरेकात्मकत्वेऽपि भेदः संज्ञादिभेदतः ॥ १ ॥ इन्द्रियज्ञान निर्भासि वस्तुरूपं हि गोचरः । शब्दानां नैव तत् केन संज्ञाभेदाद् विभिन्नता ॥ २॥ 'परमार्थैकतानत्व'" [T. 278b.] इत्यादिवचनात् तथा । शब्देनाव्यापृताक्षस्य बुद्धावप्रतिभासनात् ॥ ३ ॥ अर्थस्य, दृष्टाविव तच्छब्दाः कल्पितगोचराः । कल्पितस्यैव तद्भेदः संज्ञाभेदाद् भवेद् यदि ॥ ४ ॥
१. भवतो T. । २. सेनावनादि° T. । ३. स्वभावहेतुव्याख्यायाम् । ४. "शब्दानामनिबन्धना । न स्यात् प्रवृत्तिरर्थेषु दर्शनान्तरभेदिषु ॥ [ प्रमाणवा ३. २०६, २०७] | ५. स्वलक्षणस्य शब्दाविषयत्वे युक्तिमाह । ६. मद्रव्यपर्यायरूपेण भेदः ।
Jain Education International
-
-
-
For Private & Personal Use Only
www.jainelibrary.org