________________
१०३
देशाद्यभेदस्याभेदासाधकत्वम् । कार तत एवानेककार्यक्रियाऽपि , इत्यलमतिविस्तारिण्या कथयेति।
[$२८. देशकालस्वभावाभेदस्याभेदसाधकत्वनिरासः।] देशकालस्वभावाभेदादभेदस्तु योऽभ्युपगम्यते सोऽप्यनुपपन्न एव । तथा हि - देशकालयोरभेदेऽपि रूपरसगन्धस्पर्शाः प.
यरूपेण भिद्यन्ते तंतः कथमभेदसिद्धिः ? । स्वभावोऽपि यदि 5 द्रव्यपर्याययोद्धयोरपि प्रत्येकमनुवृत्तिव्यावृत्तिरूपता; तदा पदार्थवयं [T. 276b.] [S. 104b.] स्थाद् घटपटवद्, न त्वेकं द्विरूप. मिति कयन्तस्मादभेदसिद्धिः ? । न चानुवृत्तिव्यावृत्ती स्वभावो युक्तः, तयोरनुवर्तमानव्यावर्त्तमानाधीनत्वात् । ततश्चानुवर्तमानव्यावर्त्तमानयोः स्वभावोऽन्यो वक्तव्यः, न तु तयोरनुवृत्ति-10 व्यावृत्ती एव स्वभावः, भावत्वेन भवित्रधीनत्वात्। नहि स्मृतिः स्मर्तुः स्वभावो भवति । अनुवृत्तिव्यावृत्त्योश्च स्वभावत्वे लक्षणात् स्वभावस्य भेदो वक्तव्यः । मृदादिरूपता स्वभाव इति चेत् । अत्राप्यभेद इति यदि सादृश्यमुच्यते; तद् भेद् एव सम्भवति, सादृश्यस्य सदृशाधिकरणत्वात् । ततश्च 15 पदार्थद्वयमेव स्यात् न त्वेकं द्विरूपमिति। अथैक्यं द्वितीयरूपरहितताऽभेदोऽङ्गीक्रियते कथं तर्हि द्विरूपता ?। रूपशब्देन ह्यत्र स्वभावोऽभिधीयते । तस्य चैक्ये कथं विरूपता ? । विप्रतिषिद्धं घेतत् एकस्वभावता द्विरूपता चेति । अथ पुनः स्वभावत ऐक्यं नोपेयते । कथं तर्हि स एक इत्युच्यते अनेकः सन् ? । न ताव- 20 देककारणजन्यत्वात् , सर्वत्रोपादाननिमित्तकारणभेदेन हेतुभेदसिडेः । नाप्येककार्यकर्तृत्वात्, एकस्यापि विभक्तपरिणामाविभक्तपरिणामकार्यभेदाऽभ्युपगमात् । एकाभिधानाभिधेयत्वादपि नैकत्वम् , एकस्याप्यनेकपर्यायसम्भवात् । योग्यत्वाच विश्वस्य कृताकृतानामेकाभिधानाभिधेयत्वस्य कचिदसम्भवात् 25 शक्तिभेदाच विषयभेदं ब्रुवाणं [S. 105a.] प्रति अभिहितम् । नाप्येकविज्ञानविषयत्वादेकम् , एकत्राप्यनेकविज्ञानप्रसूतेः। तथा हि - शेशाङ्कोयं बहवो निरीक्षन्ते [T. 278a.] तस्य कथमेक
१. देशकालाभेदात् । २. क्रियात्वेन । ३. °वत्वेन ल° T.। ४. संकेतितासंकेतितानाम् । ५. संज्ञाभेदाद् भेद इत्यस्य दूषणावसरे । ६. शशाङ्कादयः T.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org