SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ हेतुबिन्दुटीका। नैकान्तिको भेदः ? । तथा हि - यमात्मानं पुरोधायाऽयं धर्मी पर्यायाश्चैते इति व्यवस्थाप्यते, यदि तस्य भेदस्तदा भेद एवोति । अनेकस्याप्येककार्यता न स्यात् । न हि परस्परोपादानकृतो5 पकारानपेक्षा विषयेन्द्रियमनस्काराः सहैककार्यारम्भिणो युक्ताः । न चैकमेव किश्चित् कचित् जनयति । ततश्च सर्वत्र कार्यकारणभाव एवोत्सीदेत्, अनेकस्यैकस्य चैकानेकक्रियाविरहात् प्रकारान्तराभावाच । नाप्यहेतुकमेव विश्वम्, [T. 276a.] देशकालप्रकृतिनिय10 मात् । तस्मादेकसामग्र्यधीनजन्मनामेव सहभावनियमो भावानामेककार्यक्रियानियमो वा। ततश्च स्वसन्तानक्षणमितरोपा. दानं च युगपदुपकुवतः कथमेकस्यानेककार्यता न स्यात् ? । ततः कथं कार्यभेदाद् भेदः कल्प्येत ? । द्रव्यपर्यायाणां चैकस्वभावता माचक्षाण [S. 104a.] एकस्यानेककार्यतां प्रतिक्षिपतीति कथं 15 नोन्मत्तः ?, स्वभावस्यैव वस्तुत्वात् , अन्यथा तस्य निःस्वभावताप्रसङ्गात् । एकस्वभावत्वे च द्रव्यपर्यायाणां तत्कार्यभेद एकवस्तुनिबन्धन एवेति कार्यभेदादू भेदमभिधानः स्फुटमहीक एवायमित्युपेक्षामर्हति। [२७. वैशेषिककृतोऽप्येकस्यानेककार्यकारित्वाक्षेपो न युक्तः।] 20 वैशेषिकोऽपि द्रव्यस्यैकस्य द्रव्यगुणकर्मणां समवायिका रणतां ब्रुवाणः कर्मणश्चैकस्य संयोगविभागसंस्कारनिमित्ततामेकस्यानेककार्यक्रियां प्रतिक्षिपन् स्वकृतान्तकोपेनैव प्रतिहतः। न चात्र शक्तिभेदो निबन्धनम् , यतस्तदेकोपकारनिरपेक्षाः कथमेताः शक्तयो नियतार्थाधाराः ?, न पुनरनवयवेन व्यक्ती25 वाऽश्नुवीरन् ? । ततो यत एवास्याऽऽत्मातिशयादनेकशक्त्युप .१. प्रकृते दूषणान्तरमाह । २. एकस्यानेकक्रियाऽनभ्युपगमे चेति पूर्वेण योगः। ३. प्रत्येकमेकानेकक्रियाविरहः। ४. कृतिप्रतिनिय° T.। ५. इतर उपादानं यस्य । ६. नोत्पन्नः T.। ७. स्वभावस्यैव भेदो न वस्तुन इति चेदाह । ८. द्रव्यपर्यायकार्यभेदः । ९. °गविशेषसं° - T.। १०. कान्येन । ११. एकस्या' - T.। १२. द्रव्यस्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy