________________
द्रन्यपर्याययोः भेदाभेदस्य निरासः । न्यकार्यसम्भवः ? । तद्भावे वा तेषां तदन्यजननस्वभावता स्यात् । ततश्च विज्ञानमेव न कुर्युः, तद् यजननस्वभावत्वात् ।
नैष दोषः, तेषामनेककार्यक्रियास्वभावत्वात् । तथा हि - ते तवस्थायां प्रत्येकं विशिष्टसजातीयेतरक्षणजननात्मकाः, तेषां तत्सत्तानन्तर्यदर्शनात् । तत्र विज्ञानजननस्वभावतैवेति 5 तस्थाजननस्वभावता व्यवच्छिद्यते तस्या एव प्रतियोगित्वात् नान्यजननस्वभावता। न चातस्तेषामनेकात्मता स्यात्, एकस्यैवात्मातिशयस्यानेककार्यहेतुत्वात् । न हि तदन्यापेक्षया विपर्ययव्यावृत्तिमुपादायानेकेन शब्देनाभिधीयमानं वस्तु अनेकरूपतां प्रतिपद्यते, प्रतिविशिष्टस्यैकस्यैवात्मनस्तथाभिधानात् । 10 यथा [S. 103a.] रूपं सनिदर्शनं सप्रतिघमिति । नपत्र स्वभावभेदनिबन्धना ध्वनयः, सामानाधिकरण्याभावप्रसङ्गात् । तंनिमित्तानामेकंत्र भावात् अदोष इति चेत् । न । तेषां तदेकोपकारानपेक्षिणां तंदयोगात्। अपेक्षायां वा कथमेकमनेक[T. 277b]कार्य न स्यात् ? । अनेकेनैवात्मनोपयोगात् इति चेत् । 15 न । सामानाधिकरण्याभावदोषस्य तावस्थ्यप्रसङ्गात् । न च नीलादीनामात्मभेदमध्यक्षमीक्षामहे । नापि कार्यभेदादेवात्मभेदानुमानम्, प्रतिबन्धाभावात्, तदाहकप्रमाणाभावात् । प्रत्यक्षतोऽनेककार्याणामपि भावानामेकात्मतयैवोपलक्षणात् प्रदीपादीनाम् । नानुमानतः, तत्रापि विपर्यये वाधकप्रमाणाभावात् । 20 एकस्यानेकक्रियाऽनभ्युपगमे च योऽयं रूपरसगन्धस्पर्शविशेषाणां कचित् सहभावनियमः प्रमाणपरिदृष्टः स न स्यात् । भिननिमित्तानां सहभावनियमायोगात् । तन्निमित्तानामपि तदेककारणानायत्तजन्मनां [S. 103b.] नियतसाहित्यासम्भवात् । तदेकम्मिस्वभावतयैकत्र सहभावनियम इति चेत् । न । एकस्या- 25 नेकस्वभावताया एव चिन्त्यत्वात् । अनेकेनैकस्वभावतां चानुभवतः तंबनेकताया दुर्निवारत्वात् अन्यथा धर्मधम्मिणां कथं
१. शब्द । २. अवयविनि । ३. निमित्तानाम् । ४. एकत्र समवायायोगात् । ५. यथा भवति । ६. कार्यभेदस्यात्मभेदे प्रतिबन्ध इत्यपेक्ष्यते । ७. रूपादिपाश्चात्यक्षणानाम् । ८. रूपादिवत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org