________________
२०6
हेतुबिन्दुटीका। व्यमहीकरिष्यते, परिणाम[S. 102a.]नित्यतोपगमात् । सा च पूर्वोत्तरक्षणप्रबन्धवृत्त्या । नह्यस्य पर्यायाणामिवोच्छेदः तंद्रूपेण, पर्याया [T. 275b.] एव पर्यायरूपेण निरुध्यन्ते न तु द्रव्यमिति नित्यमभ्युपगम्यते । न चेयं कूटस्थनित्यता वा द्रव्ये सम्भवति, 5 पर्यायव्यतिरिक्तस्य द्रव्यस्यासिद्धेः तस्योपलब्धिलक्षणप्राप्तस्य तविवेकानुपलक्षणात् । पर्यायेष्वेव तुल्यरूपकार्यकर्तृषु द्रव्याभिमानो मन्दमतीनाम् । न पुनस्तत् ततो विलक्षणमुपलक्ष्यते । ____ कार्यभेदस्त्वस्मान् प्रति असिद्ध एव । रूपादीनामेव केषाश्चित् तत्कार्यकर्तृत्वात् । तथाप्यभ्युपगम्योच्यते - कार्य हि द्वि10 विधम् । भिन्नकालमभिन्नकालं च । तत्र पूर्व भवति भेदनिवन्धनम् यदीह सम्भवेत्। तत्तु न सम्भवति धर्मधर्मिमणोस्तुल्यकालत्वात् । अभिन्नकालस्तु कार्यभेदेऽनैकान्तिकः, विभक्तपरिणामेषु पटादिषु सम्भवात् । पटादयोऽपि हि विभक्तपरिणामा
अनेक कार्य कुर्वन्तो दृष्टाः । न च धम्मिरूपेण भिद्यन्ते, एक15 स्यानेकक्रियाविरोधाभावाच । नपत्र कारणमेव कार्यात्मतामुपैति, यत एकस्य कारणात्मनः एककार्यरूपतोपगमे तदन्यरूपाभावात् तदन्यकार्यात्मतोपगतिन्न स्यात् । किन्वपूर्वमेव कस्यचिद् भावे प्रागविद्यमानं भवत् तत्कार्यम् । तत्र विषयेन्द्रियमनस्काराणामितरेतरोपादानाहितरूपभेदानां [S. 102b.] स20 न्निधौ विशिष्टस्वेतरक्षणभावे प्रत्येकं तद्भावाभावानु[T. 277a.]विधानादनेकक्रियोपगमो न विरुध्यते । यत एकक्रियायामपि तेस्य तद्भावभावितैव निबन्धनम् । सा चानेकक्रियायामपि समानेति ।
ननु च तत्सन्निधौ विज्ञानलक्षणकार्यसम्भवात् तज्जनन25 स्वभावतैवैषामवध्रियते, कार्यस्वभावापेक्षया कारणस्य जनकरूपतावस्थानात् । ततो विज्ञानजननस्वभावेभ्यः प्रत्येकं कथं तद
१. द्रव्यरूपेण । २. यं परिणामिनित्यता कूटस्थनित्यतावत् सम्भ° T. ३. परिणामनित्यता । ४. द्रव्यकार्यकर्तृत्वात् । ५. The order of the Tib. Fol. should be 275, 277, 276 and 278 according to the S. Mss. । ६. द्रव्यस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org