________________
द्रव्यपर्याययोः भेदाभेदस्य निरास: तयुक्तम् । स्वभावतो भेदानभ्युपगमे अन्यथा भेदासिद्धेः अनेकस्मादेककार्योत्पत्तेरबाधनात्। स्वभावतो भेदोपगमे वाऽपरस्परात्मतया मृत्संस्थानयोः संस्थानमृत्स्वभावविशेषाभ्यां तयोरप्रतिभासनं दुनिवारम् । यदि हि स्वभावतो न भेदो धर्मधर्मिमणोः, सङयादिभेदादपि नैव भेदः । न हि पररूपाः भिद्य- 5 माना अपि सङ्ख्यादय आत्मभूतमभेदं बाधितुं समर्थाः ।
सङ्कथाभेदस्तावदसमर्थः, एकस्मिन्नपि द्रव्ये बहुत्वेन व्यवहारदर्शनात् । यथा गुरव इति । न च बहुवचनस्य नियमेनादर्शनाद रूपादयोऽत्र निमित्तम् , रूपादिनिमित्तत्वे हि गुरुः इति न कदाचिदेकवचनं स्यात् । [S. 101b.] सम्भवि धम्मिरूपमात्र- 10 मभिधेयत्वेन विवक्षितम् इति चेत् । न । तस्यैकत्वेन विवक्षायां कात्स्यगौरवयोरप्रतीतिप्रसङ्गात् । ब्रीहय इति च जातिवचने [T. 275a.] धमिणो रूपादीनां चानभिधानात् न किञ्चिदुत्तरम् । उभयरूपस्य च वस्तुनो गुरुशब्दवाच्यत्वात् कथं सम्भविनो धम्मिरूपस्यैकत्वेन विवक्षा ? । ततश्चैको गुरुरिति सामानाधिकर- 15 ण्यदर्शनात् पर्याया अप्येकसंख्याविषयाः। ते च पर्यायरूपेण भिद्यन्ते । तत् कथं संख्याभेदादू भेदसिद्धिः ? इति ।
संज्ञाऽपि सङ्केतनिबन्धना । स चेच्छायत्तवृत्तिरिति कुतस्ततोऽर्थभेदः?। एकस्मिन्नपि च संज्ञाभेदृष्टेः कथमस्य भेदनिमित्तता ?। यथा इन्द्रः शक्रः पुरन्द्रः इति । अत्रापि इन्द- 20 नात् शकनात् दारणाच शक्तिभेदो गम्यत इति चेत् । न। समस्तस्य कार्यकर्तृत्वात् । न हि शक्तिरेव इन्दति शक्नोति दारयति च । किं तर्हि ? । धम्मिरूपमपि, तयोरेकस्वभावोपगमात्, शनोत्यादिपदैस्तद्वाचिनां सामानाधिकरण्यदर्शनाच्च । ने चास्खलवृत्तिप्रत्ययविषयत्वादुपचारकल्पना युक्तेति । येषां च पर्या- 25 पाणां न काचिदर्थानुगममात्रा तत्र किं वक्तव्यम् ? । . लक्षणभेदोऽप्यहेतुः असिद्धत्वात् । नोको भावः कचिदप्यन्वयी सिद्ध इति । तथा हि - न कूटस्थनित्यतया नित्यं द्र१. संख्यादिभिः । २. शक्त्यो देऽपि तदाधारस्यैक्या औपचारिकं सामानाधिकरण्यमित्याशङ्कयाह -
"नच" इत्यादि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org