________________
हेतुबिन्दुटीका। भ्रान्तताप्रसङ्गेन तदशादर्थव्यवस्थानाभावप्रसक्तेः। तस्मात् मृसंस्थानयोरेकात्मतैवेति [T. 274a.] न कारणानेकत्वात् कार्यस्यानेकात्मकता ऐकान्तिकी, यतो भिन्नस्वभावेभ्यश्चक्षुरादिभ्यः सहकारिभ्यः एककार्योत्पत्तिविरोधादेकरूपतया तेषां साधार5 णैककार्यक्रिया, भिन्नरूपतया वा साधारणकार्यकरणमिष्येत । [S. 100b] एतचैकसामग्यपेक्षयककार्यकर्तृत्वमुच्यते । परमार्थतस्तु तत्सामग्यन्तरर्गतानां सजातीयस्याऽपि क्षणान्तरस्यारम्भात् सामग्र्यन्तरावयवत्वेन च कार्यान्तरस्यापि यथा एकप्रत्ययजनितं किश्चिदेकं नास्ति तथाऽनेकप्रत्ययजनितमपीति कारणा10 नेकत्वात् कार्यानेकत्वोपगमेऽपि न काचित् क्षतिः । तत एकका
र्यापेक्षयाऽनेकत्वप्रसञ्जने सन्दिग्धव्यतिरेकता, सामान्येन साधने सिद्धसाध्यतेति च।
[$ २६. अहीकादिसंमतस्य द्रव्यपर्याययोः भेदाभेदपक्षस्य निरास: । ]
ननु च मृत्संस्थानविशेषयोरेकस्वभावत्वेऽप्यहीकादिभिः 15 सङ्यादिभेदाद् भेद इष्यते तत्कथमनेकप्रत्ययजनितस्यैकत्वे ए
तदुदाहरणम् स्यात् ? । सर्वत्रैव हि द्रव्यपर्याययोः सङयासंज्ञालक्षणकार्यभेदाद् भेदो देशकालस्वभावाभेदाचाभेद् इष्यते, यथा घटस्य रूपादीनां च । तथा हि - एको घटः रूपादयो बहव इति सङ्याभेदः। घटः रूपादयः इति संज्ञाभेदः। अनुवृत्ति 20 लक्षणं द्रव्यन्नित्यं च, व्यावृत्तिलक्षणा [S. 101a.] भेदाः क्षणि
काश्च जमिनीयस्य तु [T. 274b.] केचित् कालान्तरस्थायिनोऽपीति लक्षणभेदः । घटेनोदकाहरणं क्रियते, रूपादिभिः पुनवस्तुराग इति कार्यभेदः । एवं सर्वत्र द्रव्यपर्याययोः सङयादिभिर्भेदः देशादिभिस्त्वभेद इति मृत्संस्थानयोः कथञ्चित् भे25 दात् मृत्कुलालाभ्यां जनितस्य कार्यस्यानेकताऽस्त्येव । यथा त्वेकता तथा ताभ्यां तस्य अभिन्नात्मजन्यतैवेति यदनेककारणं तदनेकमेव, यत् पुनरेकं तत् सहकारिणामभिन्नरूपजन्यतयैककारणमेवेति न व्यभिचार इति । १. मृत्संस्थानयोर्देशादिभिः । २. मृत्कुलालाभ्याम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org