________________
सहकार्यनेकत्वेऽपि कार्यस्यैक्यम् ।
कार्यविशेषार्थिनोऽनेककारणपरिग्रहं कुर्व्वन्ति परस्पराहितोपकारकार्य परम्परया वाञ्छितकार्य जननयोग्यकारणसामग्रीभावार्थम् । यत [S. 99b.] एवं सामग्रीभेदाद् भिन्नान्येवेष्टकाचक्राविभक्तघटतद्विभक्तघटलक्षणानि कार्याणि भवन्ति " तत् ” तस्मात् " एवम् " उक्तेन प्रकारेण कुलालात् मृत्पिण्डरहितादन्यसामग्र्यन्त- 5 भूतात् न मृत्स्वभावता कस्यचित् कार्यस्य मृत्पिण्डकारणोपकतात्मन एव तस्य तद्विशेषहेतुत्वात् । न मृदः केवलायाः, त सामग्रीबहिर्भूतायाः संस्थान [T. 273b. ] विशेषः कुलालोपादानोपकृताया एव मृत्संस्थानविशेषात्मक कार्यहेतुत्वात् । [ $ २५. सहकार्यनेकत्वेऽपि कार्यस्य ऐक्यम् । ]
तदेवं सामग्रीभेदाद् भेदं कार्यस्योदाहरणे प्रतिपाद्य सहकारिणामनेकत्वेऽप्यनेकात्मताविरहं प्रतिपादयन्नाह - "न च तयोः ” मृत्कुलालयोः सहितयोः परस्परोपादानोपकृतात्मनोः यः शक्तिविशेषः प्रत्ययान्तरसहितावस्थातो विशिष्टा योग्यता तेद्विषयस्य तदन्यावस्थाविषयाद् भेदे सत्यपि यथा तदन्यस्माद् 15 भेदः, एवं " स्वभावेन न भेदः " । " स्वरूपतोऽपि न नानात्वं " नानेकात्मकता " कार्यस्य " । ताभ्यां जनितो यो विशेषो मृत्संस्थानविशेषात्मकः स एव तदन्यसामग्रीजन्याद् भिद्यत इति भेदो
अस्य ।
१. शक्तिविशेष विषयस्य । २. व्यतिरेकी ।
१३ हे.
CC
कथं पुनरेत [T] ज्ञायते ' तदन्यस्मादिव [S.1002.] स्वभा- 20 वतोऽप्यस्य भेदो नास्ति' इत्यत आह- मृत्संस्थानयोः " इत्यादि । यदि हि मृत्कुलालयोः तदवस्थाभाविनो: “ शक्तिविशेषविषयो ” मृत्संस्थानविशेषात्मको “भेद" स्तदन्यस्मादिव स्वरूपतो भिद्येत तदा मृत्संस्थानयोरपरस्परात्मतया” परस्परात्मताविरहेण कारणेन संस्थानविशेषेण मृत् न प्रतिभासेत, न मृत्खभावेन च संस्थान - 25 विशेषः, यथा तदन्यरूपेण । ने हि यो यस्य स्वभावो न भवति स तेनात्मना स्वग्राहिणि ज्ञाने प्रतिभासते, रूपरसवत्; ज्ञानं वा तद्रूपविकलार्थ सामर्थ्ये नोत्पद्यमानं तद्रूपमनुकर्तुं युक्तम्,
Jain Education International
९७.
-
10
For Private & Personal Use Only
www.jainelibrary.org