________________
हेतुबिन्दु टीका ।
व्यग्रस्वभावानि कारणान्तरसहितानि इष्टकादिलक्षणानि तदन्यजन्येभ्योऽभिन्नस्वभावानि [S. 98b. ] यानि कार्याणि साधयन्ति तेभ्यो विलक्षणमेव समग्राणि घटात्मकं कार्य जनयन्ति । तथा हि - कुलालादिनिरपेक्षो मृत्पिण्डः तदन्यजन्याद् वृक्षा5 देर्विलक्षणमेवोपादानभावेन मृदात्मकं कार्य जनयन् दृष्टः । कुलालादिसहितोऽपि तदात्मकमेव घटम् । तत्कारणाहितविशेषश्च केवलमृत्पिण्डाद भिन्नस्वभावतया तत्कार्यादपीष्टकादेविलक्षणमेव करोति । एवं कुलालादिकमपि तदन्योपादानसहितं सहकारिभावेन यत्कार्यं करोति तद्विलक्षणमेव मृत्पिण्डसहितं त10 त्कारणाहितविशेषं घटात्मकं कार्यं जनयतीति समुदायार्थः । तत्र मृत्पिण्डाद् भिन्नः स्वभावो घटस्य ये तदन्योपादानकारणतया मृत्स्वभावा न भवन्ति वृक्षादयस्तेभ्यो भवति । " कुलाला "" मृत्पिण्डोपादानाहितातिशयात् सहकारिभावेनोपयुज्यमानात् “ तस्यैव घटस्य " मृत्पिण्डोपादानतया मृदात्मनः सतः “ संस्थान15 विशेषः " पृथुबुध्नोदराद्याकारः तदात्मतया तदन्येभ्यो येषां मृत्पिण्डस्तदन्यनिमित्तसहित [S. 992.] उपादानमिष्टकादीनां तेभ्यो भिन्नः स्वभावो भवति । ff 'सूत्रात् ” मृत्पिण्डकुलालकारणाहितविशेषात् [T. 273a.] तस्यैव घटस्य " मूत्संस्थानविशेषात्मनो " मृत्पिण्डकुलालयोस्तज्जननस्वभावत्वात् घटस्य तद्रूपयोगात् " तयोश्च " 20 सूत्रकारणोपहितविशेषयोस्तन्निरपेक्षावस्थातो भिन्नात्मकतया
१
९६
" चक्रादेविभक्तो " विच्छिन्नः " स्वभावो भवति ” तस्मादनु[क्रा]न्तकारणत्रयजन्यो घटः तदन्यस्मादेकैककार्याद् द्विद्विकार्याच भिन्नस्वभाव एव जायत इति सामग्रीभेदाद् भिन्नान्येव कार्याणि परस्परमसङ्कीर्णस्वभावानि भवन्तीति तदुपयोगकार्यविशेषास25 ङ्करः सिद्धः । तैस्य चैकैकतदवस्थाभावि कारणभेदान्वयव्यतिरेकानुविधायितया खण्डशोऽनुत्पादाच्च । तदेकैकजन्यत्वेऽपि वस्तुतस्तदेकैकसजातीयकारणान्तरसन्निधावदृष्टस्य विशेषस्येतरसन्निधौ तदर्शनात् 'तेज्जन्योऽयम्' इति तत्त्वचिन्तकै विवेच्यते । यतः
१. मृत्पिण्डकुलालयोः । २ तेषां कारणानामुपयोगः व्यापारैः कार्या ये स्वभावविशेषाः तेषाम् । ३. घटस्य । ४. ' तज्जन्योऽयम्' इति तत्त्वचिन्तकैविवेच्यते इति सम्बन्धः । ५. मृदादि° । ६. विवेकात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org