________________
arrarasu कार्यस्यैक्यं, सामग्रीभेदे च कार्यभेदः ।
1
सम- 5
ननुकाराभ्यां तद्भावे व्यभिचाराव्यभिचारतश्च । तथा हि - विज्ञानं मनस्कारस्य बोधरूपतामनुकरोति, न चक्षुरादेर्जरा (डा) दिभावम् । एवमन्यदपि प्रत्येयम् । नियमेन च विज्ञानमात्रभावे समनन्तरप्रत्ययस्य व्यापारो न चक्षुरादेः । चक्षुःक्षणान्तरोदये च पूर्वभाविनश्चक्षुषो न स्वविज्ञानयोग्यताहेतोः [T. 272a. ] नन्तरप्रत्ययस्य । एवं रूपस्यापि वाच्यम् । तस्मादवस्थाभेदेऽपि यद् एकाकार परामर्ष (र्श) प्रत्ययनिबन्धनतया स्वसन्तति पतितकार्यप्रसूतिनिमित्तं तद् उपादानकारणं । यत् सन्तानान्तरे प्रागवस्थापेक्षविशेषोदयनिबन्धनं तत् सहकारिकारणम् । सा चेयं भावानां स्वहेतुपरम्परायाता प्रकृतिर्यया किञ्चित् कार्य स्वसन्तानव्यवस्था - 10 निबन्धनं जनयन्त्यपरं च सन्तानान्तरव्यपदेशनिबन्धनमिति तस्या एव सामग्रया अवान्तरविशेषकृतत्वाच्चक्षूरूपविज्ञानक्षणानां परस्परतो [S. 98a.] वैलक्षण्यं न विरुध्यते ।
[ $ २४. कारणानेकत्वेऽपि कार्यस्यैकत्वं सामग्रीभेदे च कार्यभेदः । ] तस्माद यदि ' कारणभेदात् ' कारणानेकत्वात् " कार्यस्य भेदः " 15 अनेकत्वं तदा प्रतिबन्धाभावादनेकान्तः । न च तदद्भ्युपगम्यत इति न काचित् क्षतिः ।
अथ सामग्रीलक्षणस्य कारणस्य भेद: सामग्र्यन्तराद् वैलक्षण्यं कार्यस्यापि भेदोऽतत्कारणेभ्यो भिन्नस्वभावतोच्यते । तदा तस्ये भावात् कथं न कारणभेदात् कार्यभेदः स्यात् ? इति अ- 20 भिप्रायवता 'ने' कारणभेदात् कार्यभेदो न स्यात् । कुतः ? | यथाखम् ” इत्याद्यभिहितम् ।
"उभयं चैतत् कार्येषु प्रमाणपरिदृष्टमिति दर्शयन्नाह - " यथा” इत्यादि । मृत्पिण्डादिभ्यो हि भवतो घटस्य न कारणानेकत्वेऽप्यनेकरूपता । नाऽपि सामग्रयन्तरजन्यादभिन्नस्वभावतेत्युदाहर- 25 [T. 272b.] सामग्र्यन्तरजन्यात् तावद् भेदं दर्शयति - " मृत्पिण्डात् ” इत्यादि । इह मृत्पिण्डकुलालसूत्राणि १. कार्यभावे । २. क्षणानन्तरोदये T. । ३. नियमेन व्यापार इति सम्बन्धः । ४. वैलक्षण्यस्य । ५. सामग्र्याम् । ६. " न " इति सूत्रांशस्य व्याख्या 'कारण' इत्यादि । ७. कारणानेकत्वे कार्यस्यैकत्वम्, सामग्रीवैलक्षण्यात्कार्यवैलक्षण्यं च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org