________________
K8
विशेषाणामसाङ्कर्यादस्त्येव सामग्रीलक्षणकारणभेदात् कार्याणां भेद इति ।
ननु यदा विषयेन्द्रियमनस्कारेभ्यो विज्ञानसम्भवः तदा तेषामुपयोगविषयस्यैकत्वात् कथमसाङ्कर्यम् ? । तथाविधस्य सा5 ङ्कर्यस्येष्टत्वात् अदोषः । तदुक्तम् - " तत्रैवैकत्र सामर्थ्यात् " इत्यादि । कथं तर्हि तेषां तज्जनकत्वम् ?, यदि तद्भेदात् [S. 97a.] न भिद्यते कार्यम् । किं नु वै समग्राणामन्यान्यकार्यजननेन जनकत्वम् यतस्तदभावे तन्न स्यात् । जनकत्वं ह्येषां तद्भाव एव कस्यचिद् भावात् । तत्रैकस्यानेकस्य वा भावे तेषामेकानेकजन - 10 करवमुच्यते ।
1
,
[ $ २३. एकसामग्रीजन्येष्वपि कार्येषु भेदोपपादनम् । ] नन्वेकस्याः सामग्र्या अनेकस्य भावे सामथ्र्यन्तरजन्येभ्यो भवतु भेदः परस्परतस्तु कथम् ? । [T. 271b.] तद्तद्रूपहेतुजत्वाद्धि भावास्तदत्तद्रूपिण इष्यन्ते । तत्र यदा चक्षुरूपमनस्का15 रेभ्यो विज्ञानजन्म तदा चक्षूरूपक्षणयोरपि भावादू विज्ञानेनाभिन्नहेतुत्वात् तयोर्विज्ञानात्मता, विज्ञानस्य वा तद्रूपता कथं न प्रसज्येत ? । आह च
हेतु बिन्दु।
20
"6 तद्तद्रूपिणो भावास्तदतद्रूपहेतुजाः ।
तद्रूपादि किमज्ञानं विज्ञानाभिन्नहेतुजम् ॥ " [ प्रमाणवा० २.२५१.] इति । नैष दोषः । तेषां यथास्वं स्वभावभेदेन निमित्तोपादानतया तदुपयोगात् । मनस्कारो हि विज्ञानस्योपादानकारणम् । चक्षुषस्तु स्वविज्ञानजननयोग्यस्य जन्मनि सहकारिकारणम् । एवमितरत्रापि यथायोगम्वाच्यम् । ततोऽन्यादशी सामग्री चक्षुःक्षणस्य जनिका अन्यादशी च विज्ञानादेरिति तद्वैलक्षण्यादेव 25 [S. 97b.] कार्याणां वैलक्षण्यम् ।
,
-
Jain Education International
स्यादेतत्- सर्व्वेषामन्वयव्यतिरेकावनुविधीयेते तदा चक्षुरादिक्षणैरिति कुतोऽयं भेदः - इहोपादानभावे भेद ( ० भावेनेद) - मुपयुज्यते, अन्यत्र तु सहकारिभावेनेतिः । बोधरूपतादेरनुकारा
१. तत्सुखादि - प्रमाणवा० । २. उत्तरमाह ।
For Private & Personal Use Only
www.jainelibrary.org