________________
सामग्री वै कार्यजनिका ।
तदयुक्तम् । सामग्रीजन्यस्वभावत्वात् कार्यस्य, तस्या एव कारणत्वात् । ननु तदवस्थायां प्रत्येकमेव सामग्रीशब्दवाच्यानां जननस्वभावत्वाभ्युपगमात् प्रत्येकमेव चक्षुरादिकं कारणम् । [T. 270b.] यद्येवं कोऽयं नियमो यदनेकस्माद् भवताऽनेकेन भ वितव्यम् विपर्यये बाधकप्रमाणाभावात्, एकेनैव तत् कार्य क- 5 र्तव्यमिति च न नियमकारणमुत्पश्यामः । एकं च तत्कार्य करोतीति कुतोऽवसितम् ? । तद्भावे भावात् इति चेत् । अनेकत्रापि समानमेतत् । तदुक्तम् " तस्यैवैकस्य जनने समर्थाः नान्यस्य इति नापरापरजननम् " इति । न चानेकस्मादू भवदनेकं प्राप्नोति । यतो नास्माकं भवतामिव कारणमेव [S. 962. ] कार्यात्मतामुपैति, 10 यतोऽनेकपरिणतेरनेकरूपत्वात् कार्यस्यानेकता स्यात् । किन्तु अपूर्वमेव केषुचित् सत्सु भवति । तच्चानेकभाव एव भावात् तस्कार्यमुच्यते तस्य कुतोऽनेकताप्रसङ्गः ? । यत्त्वभिन्नं रूपं जनकमुच्यते तस्यैकस्थितावपि भावात् तत्कार्यजननस्वभावाच्च ततः कार्यप्रसवप्रसङ्गः, तदन्यसन्निधौ तस्य विशेषाभावात् तदापि 15 वा न जनयेत् । तस्माद् येषु भावाभाववत्सु कार्य भावाभाववद् दृष्टं त एव विशेषा जनका इति कुतोऽनेकान्तः ? |
I
अथ सामग्री कारणमाश्रित्योच्यते ' न कारणभेदात् कार्यभेदः स्यादिति ', “ तन्न”, " यथास्वं " यस्याः सामय्याः य आत्मीयः स्वभावस्तद्भेदेन " तद्विशेषोपयोगतः " तस्य - विज्ञानलक्षणस्य 20 कार्यस्य विशेषा:- सामग्रीभेदाद् भिन्ना: स्वभावाः, तेषूपयोगतः [T. 2712.] तदुपयोगैः भिन्नसामग्रीव्यापारैः कार्याः ये स्वभावविशेषाः - कार्याणां विशिष्टाः स्वभावाः [S. 96b ] तेषामसङ्करात्परस्परव्यावृत्तरूपत्वात् । सामग्रीभेदाद् भिन्नरूपतैव कार्याणामिति कथन्न कारणभेदाद् कार्यभेदः स्यात् ? । तथा हि - एका 25 सामग्री मनस्कारतत्साद्गुण्यादिलक्षणा, ततो विकल्पविज्ञान - मात्रं जायते ; अपरा मनस्कारेन्द्रियमात्रलक्षणा, ततो भ्रान्तेन्द्रियविज्ञानसम्भवः ; तदन्या विषयेन्द्रियमनस्कारात्मिका, ततोऽtयभ्रान्तविज्ञानसम्भूतिरिति भिन्नसामग्रीजन्मनां कार्यस्वभाव
१. चारुत्वम् । २. देशकालादयः । ३. अर्थाभावेऽयन्तरो विकल्पः । ४. महमरीचिकासु जलज्ञानम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org