________________
हेतुबिन्दुटीका। येनाभिप्रायेण 'तेऽन्त्याः समर्थाः किन्न जनयन्ति' इत्युक्तं तं प्रकटयन्नाह – “ समर्थाः ” इत्यादि। सिद्धान्तवाद्यपि 'जनयन्त्येव' इति यदर्भिप्रायवतोक्तं तमादर्शयति - " न, तत्रैव " इत्यादि । एतदेव व्याचष्टे - " तस्यैव " इत्यादि । [S. 95a.] अय5 मभिप्रायः - ' इदमत्र समर्थम् , इदमसमर्थम् । इति प्रत्यक्षानुपलम्भसाधनाभ्यामन्वयव्यतिरेकाभ्यां व्यवह्रियते, अन्यनिमिताभावात् । तौ चान्वयव्यतिरेकावेकत्रैव कार्ये दृश्येते नापरापरत्रेति तस्यैवैकस्य जनने समर्था गम्यन्त इति नापरापरजननम् । ते तु यवस्था जनयन्तो दृश्यन्ते-किं तज्जननवभावा10 स्तदैव ? आहोस्वित् प्रागपि ? इत्यत्र विवादः । तत्र प्रागपि त
स्वभावत्वे पश्चादिव प्रागपि जननप्रसङ्ग इति प्रतिक्षणं भेद उच्यत इति । [$ २१. कारणभेदात् कार्यभेदं स्वीकुर्वद्भिः क्षपणकजैमिनीयैरनेकान्तस्योद्भावनम् । ]
पुनरन्यथा क्षपणकजैमिनीया अनेकान्तमुद्भावयन्त [T. 270a.] 15 आहुः - “ भिन्नः " परस्परव्यावृत्तः " स्वभावो" येषां तेभ्यश्चक्षुरादिभ्यः “ सहकारिभ्यः " युगपत्कर्तृभ्यः " एकस्य " विज्ञानलक्षणस्य " कार्यस्योत्पत्तौ " सत्याम् , बहूनि भिन्नस्वभावानि कारणानि कार्य त्वेकमभिन्नस्वभावमिति “ न कारणभेदात् कार्यभेदः स्यात् । ततश्च
क्षुरादयो न भिन्नेनात्मनैकस्य कार्यस्य जनका एष्टव्याः। किन्त्व20 भिन्नमेषामेककार्यजनकं सामान्यभूतं रूपमुपेयं येनाभिन्न कार्य
जनयन्ति । तच्च समग्रावस्थायामेव तत्कायें जनयति न व्यग्रावस्थायाम् । न चैकैकाभावे तस्याभावः, सामान्यात्मनः [S. 95b.] कदाचिदभावविरोधात् । न च तदाऽस्याऽजनकस्वभावता, जन
काजनकरूपवतः समग्रेतरावस्थयोर्भेदप्रसङ्गात् । तथा च सामा25 न्यात्मना हानिः । ततो यदस्य समग्रेषु चक्षुरादिषु जनकं रूपं
तदेकैकाभावेऽपि विद्यते न च जनयतीति 'तत्स्वभावस्य जननात् ' इत्यनेकान्त इति ।
[$ २२. सिद्धान्तवादिना दूषणोद्धारः।] सिद्धान्तवाद्याह - " न , यथास्वम् ” इत्यादि । एवं मन्यते - 30 किं पुनरिदं कारणमभिमतं भवतः ? । यदि प्रत्येकं चक्षुरादिकम् ; ...
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org