________________
सामग्री वै कार्यजेनिका। तेने सम्बन्धायोगात् । स्वत एव सत्त्वे वा [T. 269a.] जन्मार्थानुपपत्तेः। जन्मकाले चोपलभ्यस्यात्मनः प्रागपि भावात् तथोपलब्धिप्रसङ्गः, रूपान्तरेण भावे न [S. 94a.] तस्य भावः स्यात् । रूपभेदलक्षणत्वाद् भावभेदस्य। तस्मादुपलभ्यात्मनो जन्मनः प्रागनुपलम्भादसत्त्वम् । ततोऽस्य॑ जन्मसम्बन्धिता कुतः। 5 तस्मात् कार्यमेवाभूत्वा हेतुभावे भवतीति भाव एवास्य ततो जन्मेति सर्वेभ्यस्तत् जायते। ___ नन्वेकस्यापि तज्जनने सामर्थ्यात् अपरेषां तत्र सन्निधिलक्षणो व्यापारो व्यर्थ एवेति न तत्रापरेषां भावः सङ्गच्छत इति चेदाह - " स्वहेतोः" क्षितिबीजसलिलादिसामग्रीलक्षणस्य " परि- 10 णामः " कार्योत्पादानुगुणविशेषवतः प्रतिक्षणमुपधीयमानातिशयस्य क्षणान्तरस्य प्रसवः, ततः " उपनिधिः " कार्यदेशे सन्निधानं * धर्मो " येषां ते “ तथाभवन्तः ” कार्यदेशे सन्निधीयमानाः " नोपा- . लम्भमर्हन्ति " - ' एकस्याप्येतत्कार्यकरणे समर्थत्वात् किमत्र भवन्तः सन्निहिताः ? ' इति न पर्यनुयोगमर्हन्ति । न हि तदंपरसन्निधि- 15 मन्तरेण तंत्रकस्यापि भाव उपपद्यते। कुतः ? " तत्प्रकृतेः ” तत्प्रकृतित्वात् इति भावप्रधानो [S. 94b.] निर्देशः। क्षितिबीजसलिलादिसामग्रीपरिणामजन्यस्वभावत्वादेकैकस्य समर्थस्य तदेभावे कुतः केवलस्य सम्भवः, सामग्रीशब्दवाच्यैः कारणभेदैः समर्थस्वस्वलक्षणान्तरारम्भात् । ततश्च प्रतिक्षणमुपधीयमानाति- 20 शयस्योत्पादात् केवलानां [T. 269b.] च तज्जननस्वभाववैकल्यात् तदपरप्रत्यययोगजन्यस्वभावत्वात् समर्थजनकस्य हेतोः । एतच यथावसरं तत्र तत्र व्यक्तीकरिष्यति । तस्माद् यत्सामग्रीजन्यस्वभावो यो भावः स तत्रैकाभावेऽपि कारणवैकल्यान्न सम्भवतीत्येकसामग्रीजन्मनां सहभावो नियतः। सर्वेषां तेषां भाव 25 एव कार्यस्य भावात् सर्व एव जनयन्तीति 'तत्स्वभावस्य जननात्' इत्यत्र नानेकान्तः इति ।
१. कार्यण । २. कार्यसम्बन्धिनः। ३. कार्यजन्मनि । ४. अव्यक्तेन । ५. अव्यक्तादब्यक्तमेव रूपं आतं यतः। ६. अव्यक्तरूपाद् व्यक्तरूपं भिन्नमेव । ७. कार्यस्य । ८. कार्य । ९. कार्य । १०. तदन्यतर' । ११. कार्यदेशे। १२. अपरसन्निधानाभावे । १३. कुतः। १४. नोपालम्भमर्हन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org